This page has been fully proofread once and needs a second look.

महोदधिं नद्य इवाभिपूर्णं
तं संपदः सत्पुरुषं भजन्ते ॥ १७ ॥
 
शूराः सर्वोपधाशुद्धा बुद्धिमन्तो विचक्षणः ।
सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ १८ ॥
 
विषाणसंघट्टसमुत्थितानल-
स्फुलिङ्गमालाकुलितेऽपि दन्तिनाम् ।
रणेऽपि पीत्वा तु यशांसि विद्विषां
भवत्यविद्वान्न हि भाजनं श्रियः ॥ १९ ॥
 
तत्सर्वथा गुणवत्सहायपरिग्रहो विजिगीषूणामेकान्तसिद्धये । उक्तं च
 
न वंशमार्गक्रमलक्षणं गुणं
निरीक्षते नैव वपुर्न चागमम् ।
य एव शूरः सुसहायवान्नर-
स्तमेव लक्ष्मीश्चपलापि सेवते ॥ २
 
गुणेष्वाधारभूतेषु फले कस्यास्ति संशयः ।
न्यस्तश्चात्मा सतां वृत्ते विभूतिश्च न दुर्लभा ॥ २१ ॥
 
अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।
न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ २२ ॥
 
जयायोत्क्षिप्यतां पादो दक्षिणः किं विचार्यते ।
मूलं हि प्राहुराचार्या दीर्घसूत्रत्वमापदाम् ॥ २३ ॥
 
श्रुतापविद्धैरेतैर्वा वृथा कि शुकभाषितैः ।
प्राज्ञस्त्वं त्यज्यतां मौनं यस्य वेला तदुच्यताम् ॥ २४ ॥
 
मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः ।
मन्त्रस्य पुनरात्मा च बुद्धिश्चायतनं परम् ॥ २५ ॥
 
षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप ।
विदितान्येव ते तात कीर्तयिष्यामि कीर्तितम् ॥ २६ ॥
 
आत्मानं मन्त्रिदूतं च छन्नं त्रिषवणक्रमम् ।
आकार ब्रुवते षष्ठमेतावान् मन्त्रनिश्चयः ॥ २७ ॥