This page has not been fully proofread.

तन्त्रम् ३ ]
 
काकोलकीयकथा
 
लघुष्वपि विधातव्यं गौरवं परिपन्थिपु ।
कृत्यन्तर विधातॄणां भवन्ति फलाः क्रियाः ॥ ६ ॥
क्षमावन्तमरिं प्राज्ञं काले विक्रमसेविनम् ।
परात्मगुणदोषज्ञमनुस्मृत्य न विश्वसेत् ॥ ७ ॥
यमेवाभ्युपयाति श्रीरुपायपरितोषिता ।
निरुद्विमा हि तलास्ते न करग्रहदूषिता ॥ ८ ॥
शातयत्येव तेजांसि दूरस्थोऽप्युन्नतो रिपुः ।
सायुधोऽपि निकृष्टात्मा किमान्नः करिष्यति ॥ ९ ॥
न. भीतो न परामृष्टी नापयातो न वर्जितः ।
नाशस्त्रोऽप्यवमन्तव्यो नैको वेति नयाघिकैः ॥ १० ॥
यस्य सिध्यत्ययत्नेन शत्रुः स विजयी नरः ।
य एकतरतां गत्वा जयी विजित एव सः ॥ ११ ॥
सिद्धिं वञ्चनया वेत्ति परस्परवधेन वा ।
 
निरुपायं सुखं स्वान्तं द्वयोः किमिति चिन्त्यताम् ॥ १२ ॥
मदावलिप्तैः पिशुनैर्लुब्धैः कामात्मकैः शरैः ।
दर्पोद्धतैः क्रोधपरैदण्डनीतिः सुदुर्ब्रहा ॥ १३ ॥
इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।
सर्वसहरुपायज्ञरमूढैरेव धार्यते ॥ १४ ॥
तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो
हस्तिना पादयुद्धमिवैकान्तविनाशाय । मेघवर्ण आह । तात कथय किं निष्प-
न्नम् । सोऽब्रवीत् । भद्र संप्रधार्यतामेतत् । उक्तं च
 
या हि प्राणपरित्यागमूल्येनापि न लभ्यते ।
सा श्रीर्मन्त्रविदां वेश्मन्यंनाहूतापि धावृति ॥ १५ ॥
क्रमेण यः शास्त्रविदो हितैषिणः
क्रिया विभाग सुहृदो. न. पृच्छति...
देशं बलं कार्यमुपायमायुः :
 
संचिन्त्य यः प्रारभते स्वकृत्यम् ।
 
.॥ १६ ॥
 
७५
 
**