This page has been fully proofread once and needs a second look.

पयानं करिष्यामः । यदा स्वास्थ्यं तदा दुर्ग एव स्थास्याम इति । ततस्तस्यापि
वचनमवधार्य प्रडीविनं पृष्टवान् । भवतोऽत्र कोऽभिप्राय:यः । सोऽब्रवीत् । राजन्
आत्ययिकमिदमनवरतं गतागतकरणम् । दीनान्धकुब्जवामनकुणिखञ्जव्याधि-
तोपस्करादिभिर्नयनानयनैरेव वयं विनष्टाः । यत एवं गते संधिरेव श्रेयस्कर
इति । यत्कारणम्
 
प्रवृद्धचक्रेणाक्रान्तो राज्ञा बलवताबलः ।
संधिनोपक्रमेत् तूर्णं कोशदण्डात्मभूतये ॥ २ ॥
 
यतस्तेषां संनतिं कृत्वा सुखमनुद्विमा इहैव स्थास्याम इति । तस्यापि
वचनमवधार्याडीविनं पृष्टवान् । <error>भद्र,</error><fix>भद्र</fix> एवमवस्थितेऽस्माकं किं प्राप्तकालं मन्यसे ।
स आह । वरमरण्ये हरिणरोमन्थकषायाण्यम्भांस्यासेवितानि न च प्रभुत्वर-
सास्वादिनः परोपस्थाने कृपणजीवितमिति । अपि च
 
ज्यायान्न नमेदसमेऽसमोपनमनं महत्कष्टम् ।
गर्हितमेतत् पुंसामतिनमनं साहसधनानाम् ॥ ३ ॥
 
अपि च
 
दण्डानामिव नमतां पुंसां छाया विवृद्धिमुपयाति ।
क्षयमेति चातिनमतां तस्मात् प्रणमेन्न चातिनमेत् ॥ ४ ॥
 
तैश्च सहास्माकं संदर्शनमेव न विद्यते। संदर्शनेन विना कथं संधिर्भविष्यति ।
तत्सर्वथा युद्धमेव नस्तैः सह पुष्कलमिति । ततो मेघवर्णस्तेषां चतुर्णामपि पृथक्
पृथगभिप्रायं ज्ञात्वा चिरंजीविनमाह । तात त्वमस्माकं चिरन्तनोऽन्वयागत:तः
सचिवाऽजस्रं च हितान्वेषी । किमेवमवस्थितेऽप्यधुना प्राप्तकालं मन्यसे । यच्च
त्वं श्रूषे तदेव नः श्रेयस्करमिति । एवमुक्ते चिरंजीव्याह। देव किमेभिर्नोक्तमस्ति
यत्र सम वचनावकाशः स्यात् । इह हि संधिविग्रहयोः संधिर्वा विग्रहो वा तौ
पूर्वोक्तावेव । तथापि यदाडीविनाभिहितं तत् पक्षव्यावर्तनायोच्यते । भद्र
कथमेषामस्माकं च युद्धं सामान्यम् । तावदसाधारणं युद्धमस्माकम् । सर्वथा ते
बलवन्तः । <flag>ततस्तैः</flag> सह न युद्धमस्माकमुचितम् । तथा च
 
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहाद्व्यापदः स समीहते ॥ ५ ॥