This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
७४
 
[ तन्त्रम् ३
 
पयानं करिष्यामः । यदा स्वास्थ्यं तदा दुर्ग एव स्थास्याम इति । ततस्तस्यापि

वचनमवधार्य प्रडीविनं पृष्टवान् । भवतोऽत्र कोऽभिप्राय: । सो ब्रवीत् । राजन्

आत्ययिकमिमनवरतं गतागतकरणम् । दीनान्धकुब्जवा मनकुणिग्खञ्जव्याधि-

तोपस्करादिभिर्नयनानयनैरेव वयं विनष्टाः । यत एवं गते संधिरेव श्रेयस्कर

इति । यत्कारणम्
 

 
प्रवृद्धचक्रेणाक्रान्तो राज्ञा बलवतालः ।
 

संधिनोपक्रमेत् तूर्णं कोशदण्डात्मभूतये ॥ २ ॥

 
यतस्तेषां संनतिं कृत्वा सुखमनुद्विमा इहैव स्थास्याम इति । तस्यापि

वचनमवधार्याडीविनं पृष्टवान् । <error>भद्र,</error><fix>भद्र</fix> एवमवस्थितेस्माकं किं प्राप्तकालं मन्यसे ।
स.

आह । वरमरण्ये हरिणरो मन्थकषायाण्यम्भांस्यासेवितानि न च प्रभुत्वर-

सास्वादिनः परोपस्थाने कृपणजीवितमिति । अपि च
 
अपि च
 

 
ज्यायान्न नमेदसमेऽसमोपनमनं महत्कष्टम् ।

गर्हितमेतत् पुंसामतिनमनं साहसनानाम् ॥ ३ ॥
 

 
अपि च
 
दण्डानामिव नमतां पुंसां छाया विवृद्धिमुपयाति ।

क्षयमेति चातिनमतां तस्मात् प्रणमेन्त्र चातिनमेत् ॥ ४ ॥

 
तैश्च सहास्माकं संदर्शनमेव न विद्यते। संदर्शनेन विना कथं संधिर्भविष्यति ।

तत्सर्वथा युद्धमेव नस्तैः सह पुष्कलमिति । ततो मेघवर्णस्तेयांषां चतुर्णामपि पृथक्

पृथगभिप्रायं ज्ञात्वा चिरंजीविनमाह । तात त्वमस्माकं चिरन्तनोऽन्वयागत:

सचिवाऽजस्रं च हितान्वेषी । किमेवमवस्थितेऽप्यधुना प्राप्तकालं मन्यसे । यच्च

त्वं श्रूषे तदेव नः श्रेयस्करमिति । एवमुक्ते चिरंजीव्याह। देव किमेमिनभिर्नोक्कमस्ति
यस
तमस्ति
यत्र
सम वचनावकाशः स्यात् । इह हि संधिविग्रहयोः संधिर्वा सिविग्रहो वा ती
तौ
पूर्वोक्तावेव । तथापि दाडीविनाभिहितं तत् पक्षव्यावर्तनायोच्यते । भद्र

कथमेषामस्माकं च युद्धं सामान्यम् । तावदसाधारणं युद्धमस्माकम् । सर्वथा ते

बलवन्तः । व्र<flag>ततस्तैः</flag> सह न युद्धमस्माकमुचितम् । तथा च

 
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।

कार्यायोत्तिष्ठते मोहाद्व्यापदः स समीहते ॥ ५ ॥