This page has been fully proofread once and needs a second look.

अथ संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रम् ।
 
अथेदमारभ्यते संधिविग्रहसंबन्धं काकोलूकीयं नाम तृतीयं तन्त्रम् ।
यस्यायमाद्यः श्लोकः ।
 
न विश्वसेत् पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥ १ ॥
 
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माह ।
 
अस्ति कस्मिंश्चिद्वनोद्देशे महान्न्यग्रोधवृक्षः स्निग्धबहलपर्णगुल्मच्छायया
स्वागतमिवाध्वगानां प्रयच्छति । तत्र मेघवर्णो नाम वायसराजः प्रतिवसति स्म
काकसहस्रपरिवारः । तत्र नातिदूर उल्लूकसहस्रपरिवारोऽरिमर्दनो नामोलूकरा-
जश्च प्रतिवसति स्म । स चैकदा सहजवैरानुशयादुलूकोपलब्धदुर्गवृत्तान्तः काल-
बलशक्त्या रात्रावागत्य महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां
काकानां <flag>कदनं</flag> कृत्वाऽपयातः । अन्येद्युश्च प्रभातसमये हतशेषान् भग्नचञ्चुपक्षच-
रणानन्यांश्च समेत्य शिबिरानुसारप्रविचयोपलब्धिं कृत्वा मन्त्रिभिः सार्धं मेघ-
वर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन् महद्विशसनमस्माकं सपत्नेनारिमर्दनेन
कृतम् । दृष्टदुर्गमार्गोऽसाववश्यमद्य रात्रौ लब्धावसरोऽस्मदभावाय पुनरेष्यति ।
तदहीनकालमुपायश्चिन्त्यतां तद्विघातो यथा भवति । इति । एवमुक्त्वैकान्ती-
भूताः । अथ तस्यान्वयपरंपरागताः पञ्च सचिवास्तिष्ठन्ति । तद्यथा । उड्डीवी
संडीव्याडीवी प्रडीवी चिरंजीवी चेति । तान् प्रत्येकं प्रष्टुमारब्धः । तेषामादावु-
ड्डीविनं पृष्टवान् । <error>भद्र,</error><fix>भद्र</fix> एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सोऽब्रवीत् ।
किं मयाऽभ्यधिकं किंचिज्ज्ञायते । देव यदेव शास्त्रेऽभिहितं तदेव वक्ष्यामि ।
किं तु बलवता विगृहीतस्य तदनुप्रवेशो विदेशगमनं वा इति । तच्छ्रुत्वा संडी-
विनमाह । भद्र भवान् कथं मन्यत इति । स आह । देव यदेवानेनाभिहितं बल-
वता विगृहीतस्य विदेशगमनमिति तन्नाकस्मादेकपद एव दुर्गपरित्यागः कार्यः ।
यतो युक्तमेवं स्थिते दोलाव्याजेन कालं यापयितुम् । यदा भयं भविष्यति तदा-