This page has been fully proofread once and needs a second look.

अथ संधिविग्रहं काकोलूकीयं नाम तृतीयं तन्त्रम् ।
 

 
अथेदमारभ्यते संधिविग्रहसंबन्धं काकोलूकीयं नाम तृतीयं तन्त्रम् ।

यस्यायमाद्यः श्लोकः ।
 

 
न विश्वसेत् पूर्वविरोधितस्य शलोञ्त्रोश्च मित्रत्वमुपागतस्य ।

दग्धां गुहां पश्यत घूकपूर्णा काकप्रणीतेन हुताशनेन ॥ १ ॥

 
राजकुमारा ऊचुः । कथं चैतत् । विष्णुशर्माह ।
 

 
अस्ति कस्मिंश्चिद्वनोद्देशे महान्न्यप्ग्रोधवृक्षः स्निग्धबहलपर्णगुल्मच्छायया

स्वागत मिवाध्वगानां प्रयच्छति । तत्र मेघवर्णो नाम वायसराजः प्रतिवसति स्म

काकसहस्रपरिवारः । तत्र नातिदूर उल्लूकसहस्रपरिवारोऽरिमर्दनो नामोलूकरा-

जश्च प्रतिवसति स्म । स चैकदा सहजवैरानुशयादुलूकोपलब्धदुर्गवृत्तान्तः काल-

बलशक्त्या राखात्रावागत्य महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां

काकानां <flag>कदनं</flag> कृत्वाऽपयातः । अन्येद्युश्च प्रभातसमये हतशेषान् भग्नचञ्चुपक्षच-

रणानन्यांञ्श्च समेत्य शिबिरानुसार प्रविचयोपलब्धिधिं कृत्वा मन्त्रिभिः सार्धं मेघ-

वर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन् महद्विशसनमस्माकं सपत्नेनारिमर्दनेन

कृतम् । दृष्टदुर्गमार्गोऽसाववश्यमद्य रात्रीरौ लब्धावसरोऽस्मदभाषावाय पुनरेष्यति ।

तदहीनकालमुपायश्चिन्त्यतां तद्विघातो यथा भवति । इति । एवमुक्त्वैकान्ती-

भूताः । अथ तस्यान्वयपरंपरागताः पञ्च सचिवास्तिष्ठन्ति । तद्यथा । उड्डषिी
डीवी
संडीव्याडीवी प्रडीबीवी चिरंजीवी चेति । तान् प्रत्येकं प्रष्टुमारब्धः । तेषामादावु- -

ड्रीडीविनं पृष्टवान् । <error>भद्र,</error><fix>भद्र</fix> एवमवस्थिते किमनन्तरं करणीयं मन्यसे । सोऽब्रवीत् ।

किं मयाऽभ्यधिकं किंचिज्ज्ञायते । देव यदेव शास्त्रेऽभिहितं तदेव वक्ष्यामि ।

किं तु बलवता विगृहीतस्य तदनुप्रवेशो विदेशगमनं वा इति । तच्छ्रुत्वा संडी-

विनमाह । भद्र भवान् कथं मन्यत इति । स आह । देव यदेवानेनाभिहितं बल-

ता विगृहीतस्य विदेशगमनमिति तन्नाकस्मादेकपद एव दुर्गपरित्यागः कार्यः ।

यतो युक्तमेवं स्थिते दोलाव्याजेन कालं यापयितुम् । यदा भयं भविष्यति तदा -