This page has been fully proofread once and needs a second look.

शोकारतिभयत्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ ५ ॥
 
एवं बहु विलप्य हिरण्यकश्चित्राङ्गलघुपनतकावाह । अहो किं वृथाप्रल-
पितेन । यावदयं मन्थरकोऽस्मद्दृष्टिगोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्य-
तामिति । तावूचतुः । तथा क्रियताम् । स आह । चित्राङ्गोऽस्य व्याधस्याग्रतो
गत्वा जलसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतमिवात्मानं कृत्वा दर्शयतु । अय-
मपि लघुपतनकस्तस्योपर्यवस्थितः शृङ्गपञ्जरान्तरविन्यस्तचरणचञ्च्वा विलि-
खन्नेत्रोत्पाटनरूपं छद्मनात्मानं दर्शयतु । असावपि व्याधो मूर्खो नूनं लोभा-
न्मृगोऽयं मृत इति मत्वा कच्छपं परित्यज्य मृगार्थे सत्वरं यास्यति । तावदहं-
मप्यपक्रान्ते तस्मिन् मन्थरकस्य बन्धनं छेत्स्यामि । ततश्छिन्नबन्धो जलाशयं
सहसा प्रवेक्ष्यतीति । अन्यच्च पुनरभ्याशोपगते तस्मिँल्लुब्धकाधमे यथा पला-
यनं क्रियते तथा प्रयतितव्यम् । चित्राङ्गलघुपतनकाभ्यां तथैवानुष्ठिते स लुब्धक
उदकतीरे मृतरूपं मृगं वायसेन भक्ष्यमाणं दृष्ट्वा हर्षितमना:नाः कच्छपं भूतले
प्रक्षिप्य मृगान्तिकमुपाद्रवत् । अत्रान्तरे हिरण्यकेन मन्थरकस्य बन्धनं
खण्डशः कृतम् । कच्छपोऽपि तत्स्थानात् सत्वरं जलाशयमनुप्रविष्टः । स
मृगश्चासन्नं तं व्याधं विलोक्योत्थाय वायसेन सह प्रनष्टः । अथ लुब्ध-
कोऽपि तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य प्रत्यावृत्य यावत्
कच्छपस्थानं गतस्तावत् पश्यत्यङ्गुलप्रमाणां खण्डशश्छिन्नां बन्धनरज्जुं कच्छप-
मपि योगिनमिवादृश्यतां गतम् । इति स्वशरीरेऽपि संशयमचिन्तयत् संक्षुभि-
तहृदयश्च तस्माद्वनाद्दिशोऽवलोकयञ्शीघ्रतरपदैर्निराश:शः स्वगृहमेव गतः । अथ
चत्वारोऽपि ते सर्वे विमुक्तापद:दः कल्यशरीरा:राः पुनरेकस्थीभूय स्वस्थानं गत्वा
परस्परं स्नेहेन वर्तमानाः कालेन यथासुखमास्थिताः । तस्मात्
 
तिरश्चामपि यत्रेदृक् संगतं लोकसंमतम् ।
मर्त्येषु यदि कस्तत्र विस्मयो ज्ञानशालिषु ॥ ९६ ॥
 
इति मित्रप्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ।