This page has not been fully proofread.

मित्रप्राप्तिः
 
शोकारतिभयवाणं प्रीतिविस्रम्भभाजनम् ।
 
केन रत्नमिदं सृष्टं भित्रभित्यक्षरद्वयम् ॥ १५ ॥
 
एवं बहु विलय हिरण्यकचिलाडलघुपनतकावाह । अहो किं वृथाप्रल-
पितेन । यावदयं मन्थरकोऽस्मदृष्टिगोचरान्न नीयते तावदस्य मोक्षोपायश्चिन्त्य-
तामिति । तावूचतुः । तथा क्रियताम् । स आह । चिलाङ्गोऽस्य व्याधस्याग्रतो
गत्वा जलसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतभिवात्मानं कृत्वा दर्शयतु। अय-
मपि लघुपतनकस्तस्योपर्यवस्थितः शृङ्गपञ्जरान्तर विन्यस्तचरणचा विलि-
खन्नेलोत्पाटनरूपं छद्मनात्मानं दर्शयतु । असावपि व्याधो मूर्खो नूनं लोभा-
न्मृगोऽयं मृत इति मत्वा कच्छपं परित्यज्य मृगार्थे सत्वरं यास्यति । तावद्ह-
मप्यपक्रान्ते तस्मिन् मन्थरकस्य बन्धनं छेत्स्यामि । ततरिछन्नबन्धो जलाशयं
सहसा प्रवेक्ष्यतीति । अन्यच्च पुनरभ्याशोपगते तस्मिल्लुब्धकाधमे यथा पला-
यनं क्रियते तथा प्रयतिंतव्यम् । चित्राङ्गलघुपतनकाभ्यां तथैवानुष्ठिते स लुब्धक
उदकतीरे मृतरूपं मृगं वायसेन भक्ष्यमाणं दृष्टा हर्षितमना: कच्छपं भूतले
प्रक्षिप्य मृगान्तिकमुपाद्रवत् । अवान्तरे हिरण्यकेन मन्थरकस्य बन्धनं
खण्डशः कृतम् । कच्छपोऽपि तत्स्थानात् सत्वरं जलाशयममुप्रविष्टः । स
मृगश्वासन्नं तं व्याधं विलोक्योत्थाय बायसेन सह प्रमुष्टः । अथ लुब्ध-
कोऽपि तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य प्रत्यावृत्य यावत्
कच्छपस्थानं गतस्तावत् पश्यत्यङ्गलप्रमाणां खण्डशनिछलां बन्धनरज्जुं कच्छप-
मपि योगिनभिवादृश्यतां गतम् । इति स्वशरीरेऽपि संशयमचन्तयत् भि
तहृदयश्च तस्माद्वनादिशोऽवलोकयन्नशीघ्रतरपवैर्निराश: स्वगृहमेव गतः । अथ
चत्वारोऽपि ते सर्वे विमुक्तापद: कल्यशरीरा: पुनरेवास्थीभूय स्वस्थानं गत्वा
परस्परं स्नेहेन वर्तमानाः कालेन यथासुखमास्थिताः । तस्मात्
 
७२
 
तिरामपि यत्नेहक संगतं लोकसंमतम् ।
मर्त्येषु यदि कस्तन विस्मयो शालिषु ॥ ९६ ॥
 
इति मिलमाप्तिर्नाम द्वितीय तन्त्रं समाप्तम् ।
 
[ तन्त्रम् २