This page has been fully proofread once and needs a second look.

कष्टं भोः ।
 
यदि तावत् कृतान्तेन धनेषु प्रलयः कृतः ।
मार्गश्रान्तस्य विश्रामो मित्रच्छायापि दूषिता ॥ ८७ ॥
 
अपरमपि मित्रं परं मन्थरकसमं न स्यात् । प्राणा अपि मित्रमूला आहुः ।
 
स्वभावजं तु यन्मित्रं तद्भाग्यैरेव जायते ।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ ८८ ॥
 
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रामस्तादृशः पुंसां यादृङ् मित्रे निरन्तरे ॥ ८९ ॥
 
प्राणवृद्धिकरं मित्रं शंसन्तीह विचक्षणाः ।
इहलोकसुखं मित्रं न मित्रं पारलौकिकम् ॥ ० ॥
 
तत्किं ममोपर्यनवरतमेवैतद्दैवं प्रहरति । यत आदौ तावदर्थपरिभ्रंशो
दारिद्र्ययोगात् स्वजनपरिभवस्तन्निर्वेदाद् देशपरित्यागः स्निग्धसुहृद्वियोगश्चेति ।
इयं तावन्मम दुःखपरंपरा । अपि च
 
स्वकर्मसंतानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि ।
इहैव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ ९१ ॥
 
कायः संनिहितापाय:यः संपदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९२ ॥
 
कं न स्पृशन्ति पुरुषं व्यसनानि काले
को वा निरन्तरसुखी य इहास्ति लोके ।
दुःखं सुखं च परिणामवशादुपैति
नक्षत्रचक्रमिव खे परिवर्तमानम् ॥ ९३
 
क्षते प्रहारा निपतन्त्यभीक्ष्ण-
मन्नक्षये कुप्यति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
छिद्रेष्वनर्था बहुलीभवन्ति ॥ ९४ ॥
 
तत्कष्टं भोः । मित्रवियोगेन हतोऽहम् । इति किं विस्मृतं निजैरपि
स्वजनैः । उक्तं च