This page has been fully proofread once and needs a second look.

तन्त्रम् २ ]
 
कष्टं भोः ।
 
काकमूषककूर्ममृगकथा
 

 
यदि तावत् कृतान्तेन धनेषु प्रलयः कृतः ।
 

मार्गश्रान्तस्य विश्रामो मित्रच्छायापि दूषिता ॥ ८७ ॥

 
अपरमपि मित्रं परं मन्थरकसमं न स्यात् । प्राणा अपि मित्रमूला आहुः ।
 

 
स्वभावजं तु यन्मित्रं तद्भाग्यैरेव जायते ।
तद्

तद
कृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ ८८ ॥

 
न मातरि न दारेषु न सोदर्ये न चात्मजे ।

विश्रामस्तादृशः पुंसां याहुदृङ् मिलेत्रे निरन्तरे ॥ ८९ ॥

 
प्राणवृद्धिकरं भिवंमित्रं शंसन्तीह विचक्षणाः ।

इहलोकसुखं भिमित्रं न मित्रं पारलौकिकम् ॥ १० ॥
तल्कि

 
तत्किं
ममोपर्यनवरतमेवैतद्दैवं प्रहरति । यत आदीदौ तावदर्थपरिभ्रंशो

दारिद्र्ययोगात् स्वजनपरिभवस्तन्निर्वेदादूद् देशपरित्यागः स्निग्धसुहृद्वियोगश्चेति ।

इयं तावन्मम दुःखपरंपरा । अपि च
 

 
स्वकर्मसंतानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि ।
 

इहैव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ ९१ ॥

 
कायः संनिहितापाय: संपदः पदमापदाम् ।

समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ९२ ॥

 
कं न स्पृशन्ति पुरुषं व्यसनानि काले
 

को वा निरन्तरसुखी य इहास्ति लोके ।

दुःखं सुखं च परिणामवशादुपैति
 

नक्षत्रचक्रमिव खे परिवर्तमानम् ॥ ९३
 

 
क्षते प्रहारा निपतन्त्य भीक्ष्ण-

मन्नक्षये कुप्यति जाठराग्भिः ।
निः ।
आपत्सु वैराणि समुद्भवन्ति
 

छिद्रेष्वनर्था बहुलीभवन्ति ॥ ९४ ॥
 
७१
 
स्वजनैः । उक्तं च
 

 
तत्कष्टं भोः । मित्रवियोगेन तोऽहम् । इति किं विस्मृतं निजैरपि
 

स्वजनैः । उक्तं च