This page has been fully proofread once and needs a second look.

स्तस्य यत्कारणं यदि स पापात्मा लुब्धकः समागमिष्यति चित्राङ्गो विछिन्न-
पाश:शः प्रणश्य यास्यति । लघुपतनकोऽपि वृक्षमारोक्ष्यति । अहमप्यल्पकायत्वा-
द्दरीविवरमनुप्रवेक्ष्यामि । भवांस्तु तद्गोचरगतः किं करिष्यतीति । मन्थरक
आह । भद्र मैवं ब्रूयाः ।
 
दयितजनविप्रयोगो वित्तवियोगश्च कस्य सह्याः स्युः ।
यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥ ८१ ॥
 
प्रविरलमप्यनुभूताः शिष्टेष्टसमागमेषु ये दिवसाः ।
पथ्यधनप्रतिमास्ते जीवितकान्तारशेषस्य ॥ ८२ ॥
 
सुहृदि निरन्तरचित्ते गुणवति दारे प्रभौ च दुःखज्ञे ।
विश्राम्यतीव हृदयं दुःखस्य निवेदनं कृत्वा ॥ ८३ ॥
 
तद्भद्र ।
 
औत्सुक्यगर्भा भ्रमतीव दृष्टि:टिः पर्याकुलं क्वापि मनः प्रयाति ।
वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ ८४ ॥
 
एवं तस्याभिवदत एवासौ लुब्धकः समायातः । तं दृष्ट्वैव हिरण्यक:कः पाशं
छित्त्वा यथापूर्वव्याहृतविवरं प्रायात् । लघुपतनको वियत्युत्पत्यैव गतः ।
चित्राङ्गोऽपि वेगेनापक्रान्तः । लुब्धकोऽपि तं पाशं मृगछिन्नमिति मत्वा परं
योगमचिन्तयदाह च । न दैवं विना मृगः पाशच्छेदं कृतवान् । अथ तं
मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्ट्वा किंचित्तुष्ट:टः ससंभ्रममचिन्त-
यत् । यद्यपि मे मृगो दैववशात् पाशं छित्त्वापहृतस्तथापि मे दैवेन
कच्छप उत्पादित इति । एवमवधार्य क्षुरिकया कुशानादाय दृढां रज्जुं कृत्वा
चरणावाकृष्य कच्छपं सुबद्धं कृत्वा धनुष्यवलम्ब्य यथागतमेव प्रायात् । ततस्तं
नीयमानं दृष्ट्वा मृगमूषकवायसाः परं विषादं गच्छन्तो रुदन्तस्तमनुजग्मुः ।
हिरण्यक आह ।
 
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ ८५ ॥
 
यावदस्खलितं तावत् सुखं याति समे पथि ।
सकृच्च स्खलितं किंचिद्विषमं च पदे पदे ॥ ८६ ॥