This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
स्तस्य यत्कारणं यदि स पापात्मा लुब्धकः समागमिष्यति चित्राङ्गो विछिन्न-

पाश: प्रणश्य यास्यति । लघुपतनकोऽपि वृक्षमारोक्ष्यति । अहमप्यल्पकायत्वा-

द्द
रीविवरमनुप्रवेक्ष्यामि । भवांस्तु तद्गोचरगतः किं करिष्यतीति । मन्थरक

आह । भद्र मैवं ब्रूयाः ।
 

 
दयितजनविप्रयोगो वित्तवियोगश्च कस्य सह्याः स्युः ।

यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात् ॥ ८१ ॥

 
प्रविरलमप्यनुभूताः शिष्टेष्टसमागमेषु ये दिवसाः ।

पथ्यधनप्रतिमास्ते जीवितकान्तारशेषस्य ॥ ८२ ॥

 
सुहृदि निरन्तरचित्ते गुणवति दारे प्रभौ च दुःखज्ञे

विश्राम्यतीव हृदयं दुःखस्य निवेदनं कृत्वा ॥ ८३ ॥
 
७०
 

 
तद्भद्र ।
 

 
औत्सुक्यगर्भा भ्रमतीव दृष्टि: पर्याकुलं काक्वापि मनः प्रयाति ।

वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ॥ ८४ ॥

 
एवं तस्याभिवदत एवासौ लुब्धकः समायातः । तं दृष्ट्वैव हिरण्यक: पाशं

छित्त्वा यथापूर्वव्याहृतविवरं प्रायात् । लघुपतनको वियत्युत्पत्यैव गतः ।

चित्राङ्गोऽपि वेगेनापकाक्रान्तः । लुब्धकोऽपि तं पाशं मृगछिन्नमिति मत्वा परं

योगमचिन्तयदाह च । न दैवं विना मृगः पाशच्छेदं कृतवान् । अथ से
तं
मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्ट्रावा किंचित्तुष्ट: ससंभ्रममचिन्त-

यत् । यद्यपि मे मृगो दैववशात् पाशं छित्त्वापहृतस्तथापि मे देदैवेन

कच्छप उत्पादित इति । एवमवधार्य क्षुरिकया कुशानादाय दृढां रज्जुं कृत्वा

चरणावाकृष्य कच्छपं सुबद्धं कृत्वा धनुष्यवलम्ब्य यथागतमेव प्रायात् । ततस्तं

नीयमानं दृष्ट्वा मृगमूषकवायसाः परं विषादं गच्छन्तो रुदन्तस्तमनुजग्मुः ।

हिरण्यक आह ।
 

 
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारभिमिवार्णवस्य ।

तावद्द्वितीयं समुपस्थितं मे छिद्रेण्यष्वनर्था बहुलीभवन्ति ॥ ८५ ॥

 
यावदस्खलितं तावत् सुखं याति समे पाये ।
पथि ।
सकृच्च स्खलितं किंचिद्विषमं च पदे पदे ॥ ८६