This page has been fully proofread once and needs a second look.

राजकुमाराणां च हस्ताद्धस्तं गच्छन् कौतुकपरतया ग्रीवानयनकरचरणकर्णाव-
कर्षणादिभिः परिक्लेशितः । अथ कदाचित् तत्रापि राजपुत्रस्य शयनीयाधःस्थेन
प्रावृट्कालसमये सविद्युन्मेघस्तनितं श्रुत्वोत्कण्ठितहृदयेन मया स्वयूथमनुस्मृत्ये-
दमभिहितम् ।
 
वातवृष्टिविधूतस्य मृगयूथस्य धावतः ।
पृष्ठतोऽनुगमिष्यामि कदा तन्मे भविष्यति ॥ ८० ॥
 
अथैकाकी राजपुत्रः साश्चर्यमिदमाह। एक एवाहमत्र केनेदमभिहितमिति
संत्रस्तहृदयः समन्तादवलोकयन् मामपश्यत् । दृष्ट्वा च मां न मानुषेणेदमभिहि-
तं किंतु मृगेण । अत एतदौत्पातिकम् । तत्सर्वथा विनष्टोऽस्मि । इति मत्वा परमा-
वेगं गतः । अथ कथंचिद्विस्खलितवागसौ गृहाद्बहिर्निश्चक्राम परमसत्त्वाधिष्ठित
इव <error>महदास्वस्थ्यमापेदे</error><fix>महदस्वास्थ्यमापेदे</fix> । ततः प्रभाते ज्वरपरीतः सर्वभिषग्भूततन्त्रिकान् मह-
त्यार्थमात्रया प्रलोभ्याभिहितवान् । यो ममैतां रुजमपनयति तस्याहमकृशां
पूजां करिष्यामीति । अहमपि तत्रासमीक्षितकारिणा जनेन काष्ठेष्टकालगुडप्र-
हारैर्हन्यमानोऽनेन किं पशुना व्यापादितेनेति वदतायुःशेषतया केनापि साधुना
रक्षितः । तेन चार्येण सर्वलक्षणविदा विज्ञापितो राजपुत्रः । भद्र सर्वा:वाः पशुजा-
तयो ब्रुवन्त्येव न परं मानुषसमक्षमनेनैवं भवन्तमदृष्ट्वैव मनोराज्यं कृतम् । अ-
नेन प्रावृट्कालसमयोत्सुकेन स्वयूथमनुस्मृत्येदमभिहितम् । वातवृष्टिविधूत-
स्येति । तद्भवतः किमसंबद्धं ज्वरकारणम् । तच्च श्रुत्वा राजपुत्रोऽपगतज्वर-
विकार:रः पूर्वप्रकृतिमापन्न:नः । मां चापनीयाभ्यज्य प्रसूतेनाम्भसा प्रक्षालितशरीरं
कृत्वा रक्षिपुरुषाधिष्ठितं तत्रैव वने प्रतिमुक्तवान् । तैश्च तथैवानुष्ठितम् । एवमनु-
भूतपूर्वबन्धनोऽप्यहं पुनर्नियतिवशाद्बद्धः । इति ।
 
इति चतुर्थी कथा समाप्ता ।
 
अनन्तरमेवं तयोः प्रवदतोः सुहृत्स्नेहाक्षिप्तचित्तो मन्थरकस्तदनुसारेण
शरकण्टककुशावमर्दनं कुर्वाणः शनैः शनैस्तानेव समागतः । तं च दृष्ट्वा सुत-
रामाविग्नचित्तास्ते संपन्नाः । अथ हिरण्यकस्तमाह । भद्र न शोभनं त्वया कृतं
यत्स्वदुर्गमपहायागतः । अशक्तस्त्वं लुब्धकादात्मानं परित्रातुम् । वयं त्वगम्या-