This page has not been fully proofread.

कथा ४ ]
 
हरिण पूर्वबन्धनकथा
 
राजकुमाराणां च हस्ताद्धस्तं गच्छन् कौतुकपरतया ग्रीवानयनकरचरणकर्णाव-
कर्षणादिभिः परिक्लेशितः । अथ कदाचित् तत्रापि राजपुत्रस्य शयनीयाधःस्थेन
प्रावृट्कालसमये सविद्युन्मेघस्तनितं श्रुत्वोत्कण्ठितहृदयेन मया स्वयूथमनुस्मृत्ये -
दमभिहितम् ।
 
६९
 
वातवृष्टिविधूतस्य मृगयूथस्य धावतः ।
 
पृष्ठतोऽनुगमिष्यामि कदा तन्मे भविष्यति ॥ ८० ॥
अथैकाकी राजपुत्रः साश्चर्यमिदमाह। एक एवाहमल केनेदमभिहितामिति
संवस्तहृदयः समन्तादवलोकयन् मामपश्यत् । दृष्ट्रा च मां न मानुषेणेदमभिहि-
तं किंतु मृगेण । अत एतदौत्पातिकम् । तत्सर्वथा विनष्टोऽस्मि । इति मत्वा परमा-
वेगं गतः । अथ कथंचिद्विस्खलितवागसौ गृहाहिर्निश्चक्राम परमसत्त्वाधिष्ठित
इव महदास्वस्थ्यमापेदे । ततः प्रभाते ज्वरपरीतः सर्वभिषग्भूततन्त्रिकान् मह-
त्यार्थमात्त्रया प्रलोभ्याभिहितवान् । यो ममतां रुजमपनयति तस्याहमकृशां
पूजां करिष्यामिित । अहमपि तत्त्रासमीक्षितकारिणा जनेन काष्ठेष्टकालगुडप्र-
हारैर्हन्यमानोऽनेन किं पशुना व्यापादितेनेति वदतायुः शेषतया केनापि साधुना
रक्षितः । तेन चार्येण सर्वलक्षणविदा विज्ञापितो राजपुत्रः । भद्र सर्वा: पशुजा-
तयो ब्रुवन्त्येव न परं मानुषसमक्षमनेनैवं भवन्तमद्दष्व मनोराज्यं कृतम् । अ-
नेन प्रावृट्कालसमयोत्सुकेन स्वयूथमनुस्मृत्येदमभिहितम् । वातवृष्टिविधूत-
स्येति । तद्भवतः किमसंबद्धं ज्वरकारणम् । तच्च श्रुत्वां राजपुतोऽपगतज्वर-
विकार: पूर्वप्रकृतिमापन्न: । मां चापनयाभ्यज्य प्रसूतेनाम्भसा प्रभालितशरीरं
कृत्वा रक्षिपुरुषाधिष्ठितं तत्रैव वने प्रतिमुक्तवान् । तैश्च तथैवानुष्ठितम् । एवमनु-
भूतपूर्वबन्धनोऽप्यहं पुनर्नियतिवशाद्वद्धः । इति ।
 
इति चतुर्थी कथा समाप्ता ।
 
अनन्तरमेवं तयोः प्रवदतोः सुहृत्स्नेहाक्षिप्तचित्तो मन्थरकस्तदनुसारेण
शरकण्टककुशाबमर्दनं कुर्बाणः शनैः शनैस्तानेव समागतः । तं च दृष्ट्ठा सुत
रामाविनचित्तास्ते संपन्नाः । अथ हिरण्यकस्तमाह । भद्र न शोभनं त्वया कृतं
यस्वदुर्गमपहायागतः । अशक्तस्त्वं लुब्धकादात्मानं परित्रातुम् । वयं त्वगम्या-