This page has been fully proofread once and needs a second look.

मोक्षणं प्रति चोदयित्वा क्षिप्रमेव हिरण्यक आनीतः। तदवस्थं चित्राङ्गं दृष्ट्वाधृति-
परीतो हिरण्यकस्तमाह । वयस्य ज्ञानचक्षुरसि कथमिमामापदं प्राप्त इति । सोऽ-
ब्रवीत् । वयस्य किमनेन पृष्टेन । बलवद्धि दैवम् । उक्तं च
 
किं शक्यं शुभमतिनापि तत्र कर्तुं
यत्वासौ व्यसनमहोदधिः कृतान्तः ।
रात्रौ वा दिवसवरेऽपि वा समग्रे
योऽदृश्यः प्रहरति तस्य को विरोधी ॥ ७८ ॥
 
अपि च
 
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति विदुषामपि ॥ ७९ ॥
 
तत्साधो त्वमभिज्ञोऽसि नियतिविलसितानामतो द्रुतं <flag>छिन्द्धि</flag> पाशमिमं
यवदसौ लुब्धकः क्रूरकर्मा नायातीति । एवमुक्तो हिरण्यकोऽब्रवीत् । भद्र मा
भैषीर्न वर्तते मयि पार्श्वस्थे लुब्धकात् कश्चिदपाय:यः । किंतु कौतुकात् पृच्छामि ।
नित्यं चकितचार्यसि कथं छलितः । सोऽब्रवीत् । यद्यवश्यं त्वया श्रोतव्यं तदा-
कर्णय यथाहं पूर्वमनुभूतबन्धनव्यसनोऽपि दैववशात् पुनरधुना बद्धः । सोऽ-
ब्रवीत् । कथय कथमत्रानुभूतबन्धनः पूर्वं भवान् । चित्राङ्गोऽब्रवीत् ।
 
अथ हरिणपूर्वबन्धनकथा नाम चतुर्थी कथा ।
 
पूर्वमहं षण्मासजातः शिशुः । सर्वेषामग्रतो विहरामि । लीलया च दूरं
गत्वा स्वयूथं प्रतिपालयामि । अस्माकं च द्वे गती ऊर्ध्वाञ्जसी च । तयोरहमा-
ञ्जसीं वेद्मि न चोर्ध्वाम् । अथ कदाचिद्विचरन् यावन् मृगगणान्नानुपश्यामि
तावत् सुतरामाविग्नहृदयः क्व ते गता इति दिशो विलोकयन्नग्रतः स्थितान् पश्यामि ।
ते:तेः ह्यूर्ध्वगत्या जालं व्यतिक्रम्य सर्वेऽपि पुरतो गता मामेव वीक्षमाणास्तिष्ठन्ति ।
अहं चोर्ध्वगतेरनभिज्ञतयाञ्जस्या गत्या निष्पतितो जालेनाकुलीकृतः । अथ
व्याधेनागत्य गृहीतो नीत्वा च क्रीडार्थं राजपुत्रायोपनीतः । स राजपुत्रोऽपि
मां दृष्ट्वातीव परितुष्टो व्याघ्रस्य पारितोषिकं ददौ । मां चाभ्यङ्गोद्वर्तनस्नानभोजन-
गन्धविलेपनसत्कारैरपि समुचितमनोहराहारैतर्पयत्। सोऽहमन्तःपुरिकाजनस्य