2023-04-11 12:08:42 by Alok Kumar
This page has been fully proofread once and needs a second look.
पतनकोऽपि किमेतदिति जिज्ञासुरुड्डीय विपुलवृक्षमारूढः । चित्राङ्गोऽप्यात्मश-
ङ्कया तटनिकट एव स्थितः । अथ लघुपतनको वियदुत्पत्य योजनप्रमाणं भूम-
ण्डलमवलोक्य पुनर्वृक्षमवलीनो मन्थरकमब्रवीत् । एह्येहि न ते कुतश्चिद्भयमि-
ति । दृष्टं मया केवलं शष्पभुग् मृगो ह्रदमुदकार्थी समागतः । तच्छ्रुत्वा दीर्घ-
दर्शी मन्थरकः समुत्तीर्णः । त्रयोऽपि ते विश्वस्तचित्ताः पुनस्तत्रैव समागताः ।
अथाभ्यागतवत्सलतया मन्थरकस्तं मृगमाह । भद्र पीयतामवगाह्यतां चोदकं
प्रकामतः । कृतार्थो भवानिहागन्तुमर्हतीति । तद्वचनमाधाय चित्राङ्गश्चिन्तयामास ।
न ममैतेभ्यः सकाशात् स्वल्पमपि भयमस्ति । कस्मात् । कच्छपस्तावदुकगत एव
शक्तिमान् मूषकवायसावपि मृतं क्षुद्रजन्तुं चैव भक्षयतः । तदेताननुसरामि
इति मत्वा तैः सह संगतः । मन्थरकेण च स्वागताद्युपचारपुरःसरं समभिहित-
श्चित्राङ्गः । अपि शिवं भवतः । कथ्यतामस्माकं कथमिदं वनगहनमागतोऽसि ।
इति । अथासावब्रवीत् । निर्विण्णोऽस्म्यनेनाकामविहारित्वेन । अश्ववारैः सार-
मेयैर्लुब्धकैरितश्चेतश्च संनिरुध्यमानो भयान् महता जवेनातिक्रम्य सर्वानागतोऽ-
त्राहमुदकार्थी । तदिच्छामि भवद्भिः सार्धं मैत्रीं कर्तुम् । तच्च श्रुत्वा मन्थरके-
णाभिहितं । भद्र मा भैषी:षीः स्ववेश्मेदं भवतो निर्विघ्नमत्र यथेप्सितमुष्यतामिति ।
ततस्तेषां सर्वेषां स्वेच्छया कृताहाराणामजस्रं विपुलवृक्षच्छायायां मध्याह्नवेलायां
कृतसमागमानामनेकशास्त्रविवरणव्यापारसक्तचित्तानां परस्परं प्रीत्या कालोऽति-
वर्तते । अथ कदाचित् समुचितवेलायां चित्राङ्गो नायातः । तं चापश्यन्तस्ते त-
त्कालसमुपजातविपरीतनिमित्तव्याकुलितचित्तास्तस्याकुशलं मन्यमाना धृतिं न
लेभिरे। तदा लघुपतनकं मन्थरक आह । त्वमभिज्ञोऽस्यस्य कर्मणः शक्तियुक्त-
त्वात् । तदुपलभस्वोत्प्लुत्य यथावस्थितां चित्राङ्गवार्त्तामिति । तच्छ्रुत्वा लघुपतनक
उत्पत्य नातिदूरे गत्वोदकावतारे कीलकावलम्बितदृढचर्मपाशावबद्धं चित्राङ्गम-
पश्यत् । तं च समेत्य सविषादमब्रवीत् । भद्र कथमिमामापदं प्राप्तस्त्वमिति ।
चित्राङ्ग आह । भद्र नायमाक्षेपस्य कालः । संजातोऽयं तावन् मम मृत्युः । तन्
मा विलम्बस्व यत्कारणं भवाञ्छक्तियुक्तो भवाननभिज्ञः पाशच्छेदनकर्मणः । त-
दाशु गच्छ हिरण्यकमानय सोऽप्ययत्नेन पाशच्छेदनसमर्थ इति । अस्त्विति लघु-
पतनकेन मन्थरकहिरण्यकान्तिके गत्वा चित्राङ्गबन्धनस्वरूपं निवेद्य चित्राङ्गपाश-

णाभिहितं । भद्र मा भै