This page has been fully proofread once and needs a second look.

तत्किं बहुना स्ववेश्मेदं भवतः । निर्वृतेनानुद्विग्नेन च भूत्वा त्वया मयैव
सह प्रीतिपूर्वमत्र कालो नीयताम् । तच्चानेकशास्त्रार्थानुगतं मन्थरकोक्तं श्रुत्वा
लघुपतनको विकसितवदनः परितोषमुपगतोऽब्रवीत् । भद्र मन्थरक । साध्वाश्रय-
णीयगुणोपेतोऽसि । भवता ह्येवं कृतहिरण्यकाभ्युपपत्तौ मम मनसः परमतुष्टि-
रुत्पादिता । कोऽत्र विस्मयः । उक्तं च
 
सुखस्य मण्डः परिपीयते तै-
र्जीवन्ति ते सत्पुरुषास्त एव ।
हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः
प्रियाः प्रियैर्ये सहिता रमन्ते ॥ ७३ ॥
 
ऐश्वर्यवन्तोऽपि हि निर्धनास्ते
व्यर्थश्रमा जीवितमात्रसाराः ।
कृता न लोभोपहृतात्मभिर्यैः
सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ ७४ ॥
 
सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ ७५ ॥
 
संरक्षणं साधुजनस्य नित्यं
कार्यं त्वया जीवितसंशयेऽपि ।
महोदयानां हि शरीरलाभे
फलं परानुग्रहमात्रमेव ॥ ७६ ॥
 
श्लाघ्यः स एको भुवि मानवानां
सोऽन्तं गतः सत्पुरुषव्रतस्य ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गाद्विमुखाः प्रयान्ति ॥ ७७ ॥
 
अथैवं जल्पतां तेषां चित्राङ्गो नाम मृगो लुब्धकत्रासितस्तृषार्तस्तं
विपुलह्रदं समागतः । तं चायान्तं दृष्ट्वा ते भयचकितहृदयाः पलायितुमारब्धाः ।
तस्याभिद्रुतमुकाभिलाषिणोऽवसरतो वारिसंघट्टश्रवणान् मन्थरकः पुलिना-
त्त्वरितमम्भसि निमग्नः । हिरण्यकोऽप्याविग्नमनास्तरुस्तम्भविवरमनुप्रविष्टः । लघु-