This page has been fully proofread once and needs a second look.

तन्त्रम् २ ]
 
काकमूषककूर्ममृगकथा
 
वल्मीकशृङ्गसदृशं च सदा नगेन्द्रं
 

लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वम् ॥ ६४ ॥

 
नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।

व्यवसायद्वितीयानां नात्यपारो महोदधिः ॥ ६५ ॥

 
सधन इति किं मदस्ते गतविभवः किं विषादमुपयांयासि ।

करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ ६६ ॥

 
तत्सर्वथा जलबुद्बुदा इवास्थिराणि यौवनानि धनानि च । यतः

 
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
 

किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ ६७ ॥
 

 
तद्भद्र हिरण्यक । एवं ज्ञात्वा हृतेऽप्यर्थे त्वया संतापो न करणीयः । उक्तं च
 

 
यद्भावि न तद्भावि भावि यन्न तदन्यथा ।

इति चिन्ता विषघ्नोऽयमगदः किं न पीयते ॥ ६८ ॥

 
तत्सर्वथा वृत्तिचिन्ताकुलतां परिभूय स्थीयताम् ।

 
येन शुकीकृता हंसा:साः शुका हरितीकृताः ।

मयूराश्चिवित्रिता येन स ते वृत्तितिं विधास्यति ॥ ६९ ॥

 
नैवार्थो व्यसनगतेन शोचितव्यो
 

हर्षो वा सुखमुपलभ्य न प्रयोज्यः ।

प्राक्कर्म प्रति जनितो हि यो विपाकः
 

सोऽवश्यं भवति नृणां शुमोभोऽशुभो वा ॥ ७० ॥
 

 
कर्तव्यः प्रतिदिवसं प्रसन्नचिंचित्तैः
 

स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
 

प्राणेषु प्रहरति नित्यमेव मृत्यु-

र्भूतानां महति कृतेऽपि हि प्रयत्ने ॥ ७१ ॥
 

 
दानेन तुल्यो निधिरस्ति नान्यः
 

संतोषतुल्यं सुखमस्ति किं वा
 

विभूषणं शीलसमं कुतोऽस्ति
 
छा

ला
भोऽस्ति नारोग्यसमः पृथिव्याम् ॥ ७२ ॥'