This page has been fully proofread once and needs a second look.

स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
एतज्ज्ञात्वा तु मतिमान्न स्वस्थानं परित्यजेत् ॥ ५७ ॥
 
तत्कापुरुषवृत्तमेतत् । न हि सतां कश्चित् स्वदेशविदेशयोर्विशेषः । यतः
 
को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गलप्रहरणैः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥ ५८ ॥
 
तद्भद्र नित्यमुद्योगपरेण भवितव्यम् । उद्युक्तानां धनं भोगाः क्व यास्य-
न्तीति । अपि च
 
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
सोद्योगं स्वयमायान्ति सहायाश्च धनानि च ॥ ५९ ॥
 
उत्साहसंपन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ ६० ॥
 
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ ६१ ॥
 
पटुरिह पुरुषः पराक्रमे । कुमतिरपि प्रभुरर्थसंचये ॥
न हि सदृशमतिं बृहस्पतेः । शिथिलपराक्रममेति सत्क्रिया ॥ ६२ ॥
 
अर्थरहितोऽपि भवान् प्रज्ञोत्साहशक्तिसंपन्नोऽसामान्यमनुष्यसदृशः
कथम् ।
 
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
परिष्वक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविपुलां
द्युतिं सैंहीं न श्वा कृतकनकमालोऽपि लभते ॥ ३ ॥
 
उत्साहशक्तियुतविक्रमधैर्यराशि-
र्यो वेत्ति गोष्पदमिवाल्पतरं समुद्रम् ।