This page has been fully proofread once and needs a second look.

मूषकपरित्राजककथा
 
तत्सर्वथासाध्येऽर्थे परिच्छेद एव श्रेयान् । उक्तं च
 

 
को धर्मो भूतदया किं सौख्यमरोगता जगति जन्तोः ।

कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ५० ॥

 
इति । एवमवधार्याहं निर्जनवनमागतोऽपश्यं चित्रग्रीवं पाशबद्धमिति

च तं मोक्षयित्वास्मत्पुण्योदयादनेन लघुपतनकेनाहं स्नेहानुवृत्त्यानुगृहीतः

तावावदत्रान्तर एष लघुपतनको ममान्तिकमागत्य पृष्टवानिहागमनाय । सोऽहम-

नेनैव सार्धं भवदन्तिकमागतः । तदेतन्मम निर्वेदकारणम् । अपिच
 

 
समृगोरगसारङ्गं सदेवासुरमानुषम् ।
 

आमध्याहाह्नात् कृताहारं भवतीह जगत्त्रयम् ॥ ५१ ॥

 
कृत्स्नामपि महीं जित्वा निकृष्टां प्राप्य वा दशाम् ।

वेलायां भोक्तुकामेन लभ्या तण्डुलसेतिका ॥ ५२ ॥

 
तस्य कृते बुधः को नु कुर्यात्कर्म विगर्हितम् ।

यस्यानुबन्धः पापीयानधोनिष्ठो विपद्यते ॥ ५३ ॥

 
इति प्रथमा कथा समाप्ता ।
 
कथा १ ]
 
६३
 

 
तच्च श्रुत्वा मन्थरकस्तं समाश्वासितवान् । भद्र नावृधृतिः करणीया

यत् स्वदेशपरित्यागो मया कृत इति । बुद्धिमांश्चासि । किं विमुह्यसे । अपि च
 

 
शास्त्राण्यधीत्यापि भवन्ति मूर्खा

यस्तु क्रियावान् पुरुषः स विद्वान् ।

संचिन्तितं त्वौषधमातुरं हि

किं नाममात्रेण करोत्यरोगम् ॥ ५४ ॥
 

 
न स्वल्पमप्यध्यवसायभीरो:

करोति विज्ञानविधिर्गुणं हि ।

अन्धस्य किं हस्ततलस्थितोऽपि

निवर्तयत्यर्थमिह प्रदीपः ॥ ५५ ॥
 

 
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव हि ।

यातयित्वा च यात्यन्ते नरा भाग्यविपर्यये ॥ ५६ ॥
 

 
तदत्र वयस्य दशाविशेषेण वृत्तिः करणीया । न चैतदपि मन्तव्यम् ।