This page has been fully proofread once and needs a second look.

अथ किमहं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वितीयं
मृत्युद्वारम् । यतः
 
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ४४ ॥
 
तत् सर्वथा तदेव बृहत्स्फिगपहृतं धनमात्मीकरोमि । मया हि तयो-
र्दुरात्मनोरुपधानीकृता धनपेटिका दृष्टास्ति । तद्वित्तं स्वदुर्ग आनयामि येन
भूयोऽपि मे वित्तप्रभावेनाधिपत्यं पूर्ववद्भवति । एवं च संप्रधार्य रात्रौ तत्र
गत्वा निद्रावशमुपगतस्य तस्य मयोपश्लिष्टेन पेटिकायां यावच्छिद्रं कृतं तावत्प्र-
बुद्धोऽसौ तापसः । ततश्च जर्जरवंशलगुडेन तेनाहं शिरसि ताडितः । कथंचि-
दायुःशेषतया निर्गतोऽहं बिलमाविशं न मृतश्च । पुनरपि चिराद्बद्धाशः समा-
श्वस्य दीनारान्तिकमुपश्लिष्टस्तेन निर्दयनैवं यष्ट्या शिरस्यभिहतो येनाद्यापि
स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् ।
साधु चेदमुच्यते ।
 
सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं
प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ४५ ॥
 
सोऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस्तृष्णातः । साधु चेद-
मुच्यते ।
 
ज्ञानं चक्षुर्न तु दृक् शीलं सुकुलीनता न कुलजन्म ।
संतोषश्च समृद्धिः पाण्डित्यमकार्यविनिवृत्तिः ॥ ४६ ॥
 
सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥ ४७ ॥
 
संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४८ ॥
 
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ ४५ ॥