This page has been fully proofread once and needs a second look.

मित्रप्राप्तिः
 
[ तन्त्रम् २
 
अथ किमहं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वितीयं

मृत्युद्वारम् । यतः
 

 
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
 
६२
 

यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ४४ ॥
 

 
तत् सर्वथा तदेव बृहत्स्फिगपहृतं धनमात्मीकरोमि । मया हि तयो-

र्
दुरात्मनोरुपधानीकृता धनपेटिका दृष्टास्ति । तद्वित्तं स्वदुर्ग आनयामि येन

भूयोऽपि मे वित्तप्रभावेनाधिपत्यं पूर्ववद्भवति । एवं च संप्रधार्य रात्रौ त
त्र
गत्वा निद्रावशमुपगतस्य तस्य मयोपश्लिष्टेन पेटिकायां यावच्छिद्रं कृतं तावत्प्र-

बुद्धोऽसौ तापसः ।' ततश्च जर्जरवंशलगुडेन तेनाहं शिरसि ताडितः । कथंचि-

दायुः शेषतया निर्गतोऽहं बिलमाविशं न मृतश्च । पुनरपि चिराद्द्धाश:शः समा-

श्वस्य दीनारान्तिकमुपश्लिष्टस्तेन निर्दयनैवं यष्ट्या शिरस्यमिभिहतो येनाद्यापि

स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् ।

साधु चेदमुच्यते ।
 

 
सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
 

प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं का कृङ्क्षति ।

उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं
 

प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ४५ ॥

 
सोऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस्तृष्णात: । साधु चेद-

मुच्यते ।
 

 
ज्ञानं चक्षुर्न तु दृक् शलिंशीलं सुकुलीनता न कुलजन्म ।

संतोषश्च समृद्धिः पाण्डित्यमकार्यविनिवृत्तिः ॥ ४६ ॥

 
सर्वा:वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् ।

उपानगृद्गूढपादस्य ननु चर्मावृतैव भूः ॥ ४७ ॥

 
संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।

कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४८ ॥

 
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।

संतुष्टस्य करप्राप्तेऽध्प्यर्थे भवति मादुनादरः ॥ ४५ ॥