2023-02-21 16:55:04 by ambuda-bot
This page has not been fully proofread.
मित्रप्राप्तिः
[ तन्त्रम् २
अथ किमहं परपिण्डेनात्मानं यापयामि । कष्टं भोः । तदपि द्वितीयं
मृत्युद्वारम् । यतः
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
६२
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ४४ ॥
तत् सर्वथा तदेव बृहस्फिगपहृतं धनमात्मीकरोमि । मया हि तयो-
दुरात्मनोरुपधानीकृता धनपेटिका दृष्टास्ति । तद्वित्तं स्वदुर्ग आनयामि येन
भूयोऽपि मे वित्तप्रभावनाधिपत्यं पूर्ववद्भवति । एवं च संप्रधार्य रात्रौ तल
गत्वा निद्रावशमुपगतस्य तस्य मयोपलिष्टेन पेटिकायां यावच्छिद्रं कृतं तावत्प्र-
बुद्धोऽसौ तापसः ।' ततश्च जर्जरवंशलगुडेन तेनाहं शिरसि ताडितः । कथंचि-
दायुः शेषतया निर्गतोऽहं बिलमाविशं न मृतश्च । पुनरपि चिराद्वद्धाश: समा-
श्वस्य दीनारान्तिकमुपलिष्टस्तेन निर्दयनैवं यष्टया शिरस्यमिहतो येनाद्यापि
स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे षणम् ।
साधु चेदमुच्यते ।
सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं का कृति ।
उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं
प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ४५ ॥
सोऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस्तृष्णात: । साधु चेद-
मुच्यते ।
ज्ञानं चक्षुर्न तु दृक् शलिं सुकुलीनता न कुलजन्म ।
संतोषश्च समृद्धिः पाण्डित्यमकार्यविनिवृत्तिः ॥ ४६ ॥
सर्वा: संपत्तयस्तस्य संतुष्टं यस्य मानसम् ।
उपानगृढपादस्य ननु चर्मावृतैव भूः ॥ ४७ ॥
संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४८ ॥
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
संतुष्टस्य करप्राप्तेऽध्यर्थे भवति मादुरः ॥ ४५ ॥