This page has been fully proofread once and needs a second look.

तद्याञ्चाजीवनं कष्टतरम् । यतः
 
कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः ।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ ३७ ॥
 
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य यान्येव तानि चिह्नानि याचतः ॥ ३८ ॥
 
दौर्भाग्यायतनं धियोऽपहरणं मिथ्याविकल्पास्पदं <error>।</error><fix></fix>
पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम् <error></error><fix>।</fix>
मूर्तं लाघवमाश्रयश्च विपदां तेजोहरं मानिनां
अर्थित्वं हि मनस्विनां न नरकात् पश्यामि वस्त्वन्तरम् ॥ ३९ ॥
 
अपि च
 
निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान् निर्वेदमागच्छति ।
निर्विण्णः शुचमेति शोकमनसो बुद्धिः परिभ्रश्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ४० ॥
 
अपि च
 
वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितो
विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिचरतटादात्मा मुक्तो वरं शतधा गतो
न तु खलजनावाप्तैरर्थैः प्रियं कृतमात्मनः ॥ ४१ ॥
 
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणोऽभ्यर्थितो जनः ॥ ४२ ॥
 
अथ चैवं गते केन नामान्योपायेन जीवितं स्यात् । किं चौर्येण । तदपि
परस्वादानात् कष्टतरं । यत्कारणम्
 
वरं कार्यं मौनं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरति-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ ४३ ॥