This page has not been fully proofread.

कथा १]
 
तद्याश्वजीवनं कष्टतरम् । यतः
 
मूषकपरिव्राजककथा
 
कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः ।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ ३७ ॥
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य यान्येव तानि चिह्नानि याचतः ॥ ३८ ॥
 
दौर्भाग्यायतनं धियोऽपहरणं मिथ्याविकल्पास्पदं ।
पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम्
मूर्त लाघवमाश्रयञ्च विपदां तेजोहरं मानिनां
अर्थत्वं हि मनस्विनां न नरकात् पश्यामि वस्त्वंन्तरम् ॥ ३९ ॥
 
अपि च
 
निद्रव्यी हियमेति हीपरिंगतः प्रभ्रश्यते तेजसो
 
निस्तेजा: परिभूयते परिभवान् निर्वेदमागच्छति ।
 
निर्विष्णः शुचमेति शोकमनसो बुद्धि: परिभ्रश्यते
निर्बुद्धिः क्षयमेस्यहो निधनता सर्वापदामास्पदम् ॥ ४० ॥
अपि च
 
वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितो
विषमपि बरं पीत्वा सुप्तं कृतान्तनिवेशने ।
गिरिचरतढादात्मा मुक्तो वरं शतधा गतो
न तु खलजनावा तैरथैः प्रियं कृतमात्मनः ॥ ४१ ॥
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणोऽभ्यर्थितो जनः ॥ ४२ ॥
अथ चैवं गते केन नामान्योपायेन जीवितं स्यात् । किं चौर्येण । तदपि
 
परस्वादानात् कष्टतरं । यत्कारणम्
 
वरं कार्य मौनं न च वचनमुक्तं यदनृतं
वरं व्यं पुंसां न च परकलत्राभिगमनम् ।
 
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरति-
वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ ४३ ॥