This page has been fully proofread once and needs a second look.

निजशक्तिहीनस्य सत्त्वोत्साहरहितस्याहारमप्युत्पादयितुमङ्गुलमात्रमप्युत्पतने
शक्तिर्नास्ति । शृणोमि चानुचराणां परस्परालापम् । आगच्छत गच्छामः । अयमा-
त्मनोऽप्युदरभरणे न समर्थः किं पुनरन्येषाम् । तत्किमनेनाराधितेन । ततोऽहं
परिचिन्त्यैतावदिति स्वमालयं गतः । प्रभातसमये सर्व एव सपत्नसकाशं गता
दरिद्रोऽसाविति वदन्तः । तथा प्रवृत्तानामनुचराणामेकोऽपि न मत्सकाशमाग-
च्छत् । पश्यामि च । मां दृष्ट्वा संमुखं त एव मत्सपत्नैः सह परस्परं किलकिला-
यन्तो हस्तास्फालनैर्ममानुचराः संक्रीडन्ति । चिन्तितं च मया यथा । एवमेतत् ।
 
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३१ ॥
 
अपि च
 
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३२ ॥
 
त्यजन्ति मित्राणि धनेन हीनं
पुत्राश्च दाराश्च सहोदराश्च ।
तमर्थवन्तं पुनरेव यान्ति
ह्यर्थोऽत्र लोके पुरुषस्य बन्धुः ॥ ३३ ॥
 
शून्यमपुत्रस्य गृहं हृच्छून्यं यस्य नास्ति सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्व शून्यंं दरिद्रस्य ॥ ३४ ॥
 
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
चान्यः क्षणेन भवतीत्यतिचित्रमेतत् ॥ ३५ ॥
 
तन्मादृशानां किं नाम तद्वरं स्यात् । यस्येदृशः फलविपाकः । तत्सर्वथा
धनहीनस्य ममाधुना नेह श्रेयः । उक्तं च
 
वसेन् मानाधिकं वासं भग्नमानं न संश्रयेत् ।
मानहीनं सुरैः सार्धं विमानमपि वर्जयेत् ॥ ३६ ॥
 
<flag>एवमुक्त्वाप्यहं</flag> पुनरप्येवमचिन्तयम् । किमर्थितां कस्यचित्करोमि तदे-