This page has been fully proofread once and needs a second look.

भिक्षाभक्षणे केनापि कारणेन भवितव्यम् । अस्ति किंचित् खनित्रकमिति । स
आह । बाढमस्ति । एषा सुहस्तिका सर्वलोहमयी । उपनीते च तस्मिन् कक्ष्यां
बद्ध्वा संदष्टौष्ठपुटः पृष्टवान् । कतरस्तस्य संचरणमार्ग इति । आख्याते च तस्मिं-
स्तेन खनित्रेण मद्विवरं खनितुमारब्धः । अहं चादावेव तयोरात्मगतमालापं श्रुत्वा-
हारमुत्सृज्य कौतुकपरोऽवस्थित आसम् । यदा त्वसौ दुर्गान्वेषणं कर्तुमारब्ध-
स्तदा मया ज्ञातम् । उपलब्धमनेन दुरात्मना मदीयविवरद्वारमिति । मयापि
केनापि साधुना पूर्वस्थापितं सुवर्णमाप्तमासीत् । तत्प्राधान्याच्चाहं शक्तिम-
न्तमात्मानं मन्ये । असावपि दुष्टो विवरानुसारात्तदुपलभ्य गृहीत्वा च धनं
पुनरावसथं प्राप्तश्चूडाकर्णमब्रवीत् । इदं तस्य तद्ब्रह्मन् सुवर्णं हृदयस्याप्यसौ
सामर्थ्यादशक्यमपि स्थानमुत्पतति । अर्धार्धं च विभज्य सुखासीनौ स्थितौ ।
तं चाहमात्मनोऽवसादं प्राप्याचिन्तयम् । कदाचिदिहस्थस्य मे प्रदीपमुज्ज्वाल्या-
संशयमासाद्य मां हन्युः । इति तस्मात् स्थानादन्यद्दुर्गस्थानं कृतवान् । अन्ये
च ये ममानुचरास्त आगत्य मामब्रुवन् । भद्र हिरण्यक त्वत्समीपवर्तिनो वय-
मत्यन्त क्षुधार्ताः । ग्रासमात्रमप्यस्माकं नास्ति । अस्तंगतेऽपि दिवसे न किंचि-
दस्माभिरासादितम् । तदर्हस्यद्यापि तावदस्मान् संतर्पयितुमिति । तथा नामेत्यु-
क्त्वाहमावसथं तैः समं गतः । अथास्मत्परिग्रहशब्दमाकर्ण्य चूडाकर्णोऽपि
भूयो भिक्षापालं जर्जरवंशेन ताडयितुं प्रवृत्तः । तेनाभिहितः । किमद्यापि
निराकृते तस्मिन् मुहुर्मुहुश्चालयसि वंशम् । स्थीयतामलमिति । ततोऽसावाह ।
भद्र । एष ममापकारी मूषकः पुनः पुनरायाति । तद्भयादेतत् करोमि । ततो
विहस्याभ्यागतः प्रोवाच । सखे मा भैषीर्वित्तेन सह गतोऽस्य कूर्दनोत्साहः ।
यतः सर्वेषामपि जन्तूनामियमेव स्थितिः । अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-
पात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितश्च । ततो मां दृष्ट्वा स मे
शत्रुर्विहस्य चूडाकर्णमुवाच । सखे पश्य पश्य कौतूहलम् । उक्तं च यतः ।
 
अर्थेन बलवान् सर्वोऽप्यर्थाद्भवति पण्डितः ।
पश्येमं मूषकं पापं स्वजातिसमतां गतम् ॥ ३० ॥
 
तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्पतने शक्तिकारणं तदावयोरेव हस्त-
गतं जातम् । तच्छ्रुत्वाहं मनसा विचिन्तितवान् । सत्यमाहायम् । यतो ममाद्य