2023-03-12 15:41:21 by Alok Kumar
This page has been fully proofread once and needs a second look.
मूषक परिव्राजककथा
५९
आह । बाढमस्ति । एषा सुहस्तिका सर्वलोहमयी । उपनीते च तस्मिन् कक्ष्यां
बद्ध्वा संदष्टौष्ठपुटः पृष्टवान् । कतरस्तस्य संचरणमार्ग इति । आख्याते च
स्तेन खनित्रेण मद्विवरं खनितुमारब्धः । अहं चादावेव तयोरात्मगतमालापं श्रुत्वा-
हारमुत्सृज्य कौतुकपरोऽवस्थित आसम् । यदा त्वसौ दुर्गान्वेषणं कर्तुमारब्ध
स्तदा मया ज्ञातम् । उपलब्धमनेन दुरात्मना मदीय
केनापि साधुना पूर्वस्थापितं सुवर्णमाप्तमासीत् । तत्प्राधान्याच्चाहं शक्तिम
न्तमात्मानं मन्ये । असावपि दुष्टो विवरानुसारात्तदुपलभ्य गृहीत्वा च धनं
पुनरावसथं प्राप्त
सामर्थ्याद
तं चाहमात्मनोऽवसादं प्रा
संशयमासाद्य मां हन्युः । इति तस्मात् स्थानादन्य
च ये ममानुचरास्त आगत्य मामब्रुवन् । भद्र हिरण्यक त्वत्समीपवर्तिनो वय-
मत्यन्त क्षुधार्ताः ।
दस्माभिरासादितम् । तदर्हस्यद्यापि तावदस्मान् संतर्पयितुमिति । तथा नामेत्यु-
क्त्वाहमावसथं तैः समं गतः । अथास्मत्परिग्रहशब्दमाकर्ण्य चूडाकर्णोऽपि
भूयो भिक्षापालं जर्जरवंशेन ताडयितुं प्रवृत्तः । तेनाभिहितः । किमद्यापि
निराकृते तस्मिन् मुहुर्मुहु
भद्र । एष ममापकारी मूषकः पुनः पुनरायाति । तद्भयादेतत् करोमि । ततो
विहस्याभ्यागतः प्रोवाच । सखे मा भैषीर्वित्तेन सह गतोऽस्य कूर्दनोत्साहः ।
यतः सर्वेषामपि जन्तूनामियमेव स्थितिः । अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-
पात्रमुद्दिश्य विशेषादुत्
शत्रुर्विहस्य चूडाकर्णमुवाच । सखे पश्य पश्य कौतूहलम् । उक्तं च यतः ।
अर्थेन बलवान् सर्वोऽप्यर्थाद्भवति पण्डितः ।
पश्येमं मूषकं पापं स्वजातिसमतां गतम् ॥ ३० ॥
तत्स्वपिहि त्वं गतशङ्कः । यदस्योत्प
ग