This page has been fully proofread once and needs a second look.

हारवेदनया पञ्चत्वं गतः । अथानन्तरं क्षुत्क्षामकुक्षिर्दीर्घरावो नाम जम्बुक
आहारार्थी परिभ्रमंस्तमुद्देशमागतस्तान् मृतान् मृगव्याधसूकरानपश्यत् । तांश्च
दृष्ट्वा प्रहृष्टो व्यचिन्तयत् । भोः । अनुकूलो मे विधिः । <error>तेनैतदचिन्तितं</error><flag>तेनैतच्चिन्तितं</flag>
भोजनं समुपस्थितम् । तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा
भवति ।
 
नान्नपानानि सततमुत्पद्यन्ते हि देहिनाम् ।
लब्ध्वा प्रभूतमन्नाद्यं क्रमशस्तूपयोजयेत् ॥ २९ ॥
 
तत्तावन् मृगसूकरव्याधान् कूटीकृत्यैनं स्नायुपाशं धनुष्कोटिगतं भक्ष-
यामि । एवमुक्त्वा धनुष्प्रतिबन्धं मुखे प्रक्षिप्य स्नायुं भक्षयितुमारब्धः । ततश्च
छिन्ने प्रतिबन्धे धनुषा तालुप्रदेशे निर्भिन्नः पञ्चत्वमुपगतः ।
 
इति तृतीया कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । कर्तव्यः संचयो नित्यमिति । तच्च श्रुत्वा ब्राह्मण्याह ।
यद्येवं तदस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युषस्युत्थाय समित्कुशा-
द्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य
साधयिष्यामि कृसरमिति । ततः प्रभाते तया ते तिला लुञ्चित्वा कामन्दकि-
नाधिष्ठिताः परिपालयेति सूर्यातप आस्थापिताः । अत्रान्तरे तस्या गृहकर्मव्य-
ग्रत्वात् तस्मिन्ननवहिते ते तिलाः शुनागत्य प्राश्य विट्टालिताः । तद्दृष्ट्वा साब्र-
वीत् । कामन्दके न शोभनमापतितम् । विघ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि
गच्छेमांस्तिलाँल्लुञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृ-
सरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन्नेव गृहेऽहं भिक्षार्थमुपगतस्तस्मि-
न्नेव गृहे कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टोऽकथयत् । गृह्यन्तामिमे तिला:लाः
परिवर्तमाने व्यवहारे गृहपतिः समायातः । तेनाभिहितम् । कथं तिलाः परि-
वर्त्यन्ते । सा तमाह । <flag>समार्घास्तिला</flag> मया लब्धाः शुक्लाः कृष्णैः । ततोऽसौ
विहस्याब्रवीत् । कारणेनात्र भवितव्यम् । अतोऽहं ब्रवीमि । नाकस्माच्छा-
ण्डिली माता । इति ।
 
इति द्वितीया कथा समाप्ता ।
 
एवमाख्यायाब्रवीत् परिव्राट् । चूडाकर्ण । अत्राप्यनिवारितशक्तेर्मूषकस्य