2023-04-11 12:03:23 by Alok Kumar
This page has been fully proofread once and needs a second look.
एककोऽत्र मूषक उतान्येऽपि मूषकाः । सोऽब्रवीत् । किमन्यैर्मूषकैः । एकोऽयं
मां दुष्टो योगीवाजस्रं छलयति । तच्छ्रुत्वासावाह । न मूषकमात्रस्येदृशी
शक्तिर्भवति । किं तर्हि कारणेनात्र भवितव्यम् । उक्तं च
नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् ।
लुञ्चिताँल्लुञ्चितैरेव कार्यमत्र भविष्यति ॥ २७ ॥
चूडाकर्ण आह । कथं चैतत् । स आह ।
अथ लुञ्चिततिलकथा नाम द्वितीया कथा ।
अहं कदाचिदभ्यर्णासु वर्षासु कस्मिंश्चिदधिष्ठाने स्थितिग्रहणनिमित्तं
कंचिद्ब्राह्मणमावासार्थं प्रार्थितवांस्तस्य च गृहेऽहं स्थितः । अथान्यस्मिन्नहनि
प्रत्यूषे प्रबुद्धोऽहं जालकान्तरितयोर्ब्राह्मणब्राह्मण्योः संवादं दत्तावधानः शृणोमि ।
तत्र ब्राह्मणः प्राह । ब्राह्मणि श्वः पर्वकालो भविता । तत्र त्वया यथाशक्ति
ब्राह्मणभोजनं कर्तव्यमिति । असावाह बहुपरुषाक्षरया गिरा। कुतस्ते ब्राह्म-
णभोजनस्य शक्तिरत्यन्तदरिद्रस्येति । एवमुक्तोऽसौ कूपे प्रक्षिप्त इव न वचः
किंचिदवोचत् । पुनरपि चिरादब्रवीत् । ब्राह्मणि नैतद्युज्यते वक्तुम् । दरिद्रैरपि
स्वल्पाल्पेतरमपि समये पात्रे देयम् । उक्तं च
कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः ।
अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ॥ २८ ॥
साब्रवीत् । कथं चैतत् । सोऽब्रवीत् ।
अथातिलुब्धशृगालकथा नाम तृतीया कथा ।
अस्ति कस्मिंश्चिदधिष्ठाने मांसवृत्तिर्व्याधः । स चैकदा प्रत्युषस्युत्थाय
यन्त्रितसायको वने पापर्द्धिं कर्तुं प्रस्थितः । शीघ्रमेव मृगमेकं व्यापाद्य मांसमा-
दाय प्रत्यागच्छन् महति तीर्थावतारेऽवतरन् महिषशावतुल्यमुद्धृतविषाणं कर्द-
मपिण्डावलिप्तगात्रं सूकरमपश्यत् । तं दृष्ट्वाशुभनिमित्तप्रचोदितो भयमागतः
प्रतिनिवृत्य च प्रतिबद्धगतिः सूकरेण मृगमांसं संकोचितकं भूमौ प्रक्षिप्य धनुरा-
कृष्य तस्मै विषदिग्धमिषुं प्राहिणोज्जत्रुस्थाने विद्ध्वा परपार्श्वगतं च कृतवान् ।
सूकरेणापि प्रहारमूर्छितेनोत्तमं जवमास्थायावस्करप्रदेशे तथाभ्याहतो येन गता-
सुस्त्रिधागतशरीरो भूतले निपतितः । अथ लुब्धकं व्यापाद्य सूकरोऽपि शरप्र-