This page has been fully proofread once and needs a second look.

भिहितं यद्बहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् ।
तद्भद्र हिरण्यक । इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् ।
अथ हिरण्यकोऽकथयत् ।
 
अथ मूषक परिव्राट्कथा नाम प्रथमा कथा ।
 
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे
परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति स्म । स च भिक्षा-
वेलायां तस्मान्नगरात् सखण्डगुडदाडिमगर्भाणां स्निग्धद्रव्यपेशलानामन्नविशेषाणां
मिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि प्राणयात्रां कृत्वा तत्र
भोजनशेषं मिक्षान्नं भिक्षापात्रे सुगुप्तं स्थापयित्वा प्रात्यूषिकपरिचारकार्थं
तद्भिक्षापात्रं नागदन्तके विलम्ब्य रात्रौ स्वपिति । अहं च तदन्नमुत्प्लुत्य
प्रत्यहं भक्षयामि सपरिजनस्तेन प्रवर्ते । एवं सुप्रयत्नमवस्थापितेऽपि तस्मिन्मया
भक्षमाणे स परिव्राड् निर्विण्णो मत्प्रतिभयात् स्थानात् स्थानमुच्चैस्तरं परिसंक्र-
मयति । तथापि तदहमनायासेनैव प्राप्नोमि भक्षयामि च । अथैवं गच्छति
काले कदाचित् तस्य प्रियसुहृद् बृहत्स्फिग्नाम परिव्राजको प्राघूर्णकः समा-
यातः । स चूडाकर्णस्तस्य स्वागतापचारं कृत्वा कृतयथोचितव्रतकालस्ततो
रात्रौ खट्वासीनः शयनगतं बृहत्स्फिजमपृच्छत् । भवान् यतो मया वियुक्तस्तत
आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् ।
अथ कदाचिदहं महाकार्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जन-
समूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्वनुकूलप्रति-
कूलां जाह्नवीमनुपर्यटन् किंबहुना कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् ।
अर्धाख्याते च तस्मिंश्चूडाकर्णो मम त्रासार्थं मुहुर्मुहुर्जर्जरवंशेन भिक्षापात्रं
ताडयन्नवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहत्स्फिगुवाच। अह-
मादृतो भूत्वा भवतः कथयामि किमिति भवाननादरो गर्वित इव मम कथायां
विरक्तोऽन्यासक्तः । चूडाकर्णो लज्जित आह । भद्र न मन्युः कर-
णीयो नाहं विरक्तः । किं तु पश्यायं मूषको मम महापकारी सदा
प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्यारोहति भिक्षाशेषं च तत्रस्थं भक्ष-
यति न चाहमेनं शक्नोमि निवारयितुम् । तन्मूषकत्रासार्थमेतेन जर्जरेण
भिक्षापात्रं मुहुर्मुहुस्ताडयामि। नान्यत् कारणमिति । सोऽब्रवीत् । किमेष