This page has been fully proofread once and needs a second look.

भिहितं यद्बहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् ।
तद्भद्र हिरण्यक । इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् ।
अथ हिरण्यकोऽकथयत् ।
 
अथ मूषक परिव्राट्कथा नाम प्रथमा कथा ।
 
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे
परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति स्म । स च भिक्षा-
वेळालायां तस्मान्नगरात् सखण्ड गुडदाडिमगर्भाणां स्निग्धद्रव्यपेशलानामन्न विशेषाणां
मिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि प्राणयातांत्रां कृत्वा तत्र
भोजनशेषं मिक्षान्नं भिक्षापाले मुत्रे सुगुप्तं स्थापयित्वा प्रात्यूषिकपरिचारकार्थं
तद्भिक्षापालंत्रं नागदन्तके विलम्ब्य रात्रीरौ स्वपिति । अहं च तदन्नमुत्प्लुत्य
प्रत्यहं भक्षयाभिमि सपरिजनस्तेन प्रवर्ते । एवं सुप्रयत्नमवस्थापितेऽपि तस्मिन्मया
भक्षमाणे स परिवाव्राड् निर्विष्ण्णो मत्प्रति भयात् स्थानात् स्थानमुच्चैस्तरं परिसंक्र-
मयति । तथापि तदहमनायासेनैव प्राप्नोभिमि भक्ष्यामि च । अथैवं गच्छति
काले कदाचित् तस्य प्रियसुहृद् बृहत्स्फिग्नाम परिव्राजको प्राघूर्णकः समा-
यातः । स चूडाकर्णस्तस्य स्वागतापचारं कृत्वा कृतयथोचितव्रतकालस्ततो
रात्रौ खाखट्वासीन:नः शयनगतं बृहत्स्फिजमपृच्छत् । भवान् यतो मया वियुक्तस्तत
आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् ।
अथ कदाचिदहं महाकार्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जन-
समूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्वनुकूलप्रति-
कूलां जाह्नवीमनुपर्यटन्, किंबहुना कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् ।
अर्घाधाख्याते च तस्मिंश्चूडाकर्णो मम वात्रासार्थं मुहुर्मुहुर्जर्जरवंशेन भिक्षापालंत्रं
ताडयन्नवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहल्त्स्फिगुवाच। अहू-
मादृतो भूत्वा भवतः कथयामि किभिमिति भवाननादरो गर्वित इव मम कथायां
विरक्तोऽन्यासक्तः । चूडाकर्णो लज्जित आह । भद्र न मन्युः कर-
णीयो नाहं विरक्तः । किं तु पश्यायं मूषको मम महापकारी सदा
प्रोन्नतस्थाने घृधृतमपि भिक्षापात्रमुत्प्लुत्यारोहति भिक्षाशेषं तत्रस्थं भक्ष-
यति न चाहमेनं शक्नोमि निवारयितुम् । तन्मूषकलात्रासार्थमेतेन जर्जरेण
भिक्षापालंत्रं मुहुर्मुहुस्तायामि। नान्यत् कारणमिति । सोऽब्रवीत् । किमे