This page has been fully proofread once and needs a second look.

५६
 
मित्रप्राप्तिः
 
[ तन्त्रम् २
 
भिहितं यद्हु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् ।

तद्भद्र हिरण्यक । इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् ।

अथ हिरण्यकोऽकथयत् ।
 

 

 
अथ मूषक परित्राटव्राट्कथा नाम प्रथमा कथा ।

 
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे

परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राट् प्रतिवसति स्म । स च भिक्षा-

वेळायां तस्मान्नगरात् सखण्ड गुडदाडिमगर्भाणां स्निग्धद्रव्यपेशलानामन्न विशेषाणां

मिक्षाभाजनं परिपूर्णं कृत्वा तमावसथमवगम्य यथाविधि प्राणयातां कृत्वा तल

भोजनशेषं मिक्षान्नं भिक्षापाले मुगुप्तं स्थापयित्वा प्रात्यूषिकपरिचारकार्थं

तद्भिक्षापालं नागदन्तके विलम्ब्य रात्री स्वपिति । अहं च तदन्नमुत्लुत्य

प्रत्यहं भक्षयाभि सपरिजनस्तेन प्रवर्ते । एवं सुप्रयत्नमवस्थापितेऽपि तस्मिन्मया

भक्षमाणे स परिवाड् निर्विष्णो मत्प्रति भयात् स्थानात् स्थानमुचैस्तरं परिसंक्र-

मयति । तथापि तदहमनायासेनैव प्राप्नोभि भक्ष्यामि च । अथैवं गच्छति

काले कदाचित् तस्य प्रियसुहृद् बृहत्स्फग्नाम परिव्राजको प्राघूर्णकः समा-

यातः । स चूडाकर्णस्तस्य स्वागतापचारं कृत्वा कृतयथोचितव्रतकालस्ततो

रात्रौ खासीन: शयनगतं बृहत्स्फिजमपृच्छत् । भवान् यतो मया वियुक्तस्तत

आरभ्य केषु देशान्तरेषु तपोवनेषु वा परिभ्रान्त इति । असावकथयत् ।

अथ कदाचिदहं महाकार्तिक्यां महातीर्थवरे पुष्करे स्नानं कृत्वा महतो जन-

समूहदोषाद्भवता वियुक्तः । ततोऽहं गङ्गाद्वारप्रयागवाराणस्यादिष्वनुकूलप्रति-

कूलां जाह्नवीमनुपर्यटन्, किंबहुना कृत्स्नं महीमण्डलं समुद्रपर्यन्तमवलोकितवान् ।

अर्घाख्याते च तस्मिंचूडाकर्णो मम वासार्थ मुहुर्मुहुर्जर्जरवंशेन भिक्षापालं

ताडयन्नवादयत् । कथ्यमानविघ्ने च क्रियमाणे कुपितो बृहल्फिगुवाच। अहू-

माहतो भूत्वा भवतः कथयामि किभिति भवाननादरो गर्वित इव मम कथायां

विरक्तोऽन्यासक्तः । चूडाकर्णो लज्जित आह । भद्र न मन्युः कर-

णीयो नाहं विरक्तः । किं तु पश्यायं मूषको मम महापकारी सदा

प्रोन्नतस्थाने घृतमपि भिक्षापालमुत्लुत्यारोहति भिक्षाशेषं व तत्रस्थं भक्ष-

यति न चाहमेनं शक्नोमि निवारयितुम् । तन्मूषकलासार्थमेतेन जर्जरेण

भिक्षापालं मुहुर्मुहुस्ताङयामि। नान्यत् कारणमिति । सोऽब्रवीत् । किमेप