This page has been fully proofread once and needs a second look.

तन्त्रम् २ ]
 
काकमूषककूर्ममृगकथा
 
अहमस्मात्स्थानादन्यत्स्थानं गच्छामि । सोऽब्रवीत् । वयस्य किं निमित्तम् / असा-

वकथयत् । निर्वेदात् । हिरण्यक आह । कस्ते निर्वेदः । स आह । प्रतिदिनं मे

चञ्चुभरणमुत्पद्यते सततं दृष्टपाशबन्धनप्रत्यवायाः पतत्रिष्णो वित्रस्यन्ते । तद्-

लमीदृशेन प्राणधारणेन । हिरण्यक आह्व । तर्हि क्व यास्यसि । स आह ।

अस्तीतोऽविदूरे वनगहनमध्ये महासरः । तत्र चिरोपार्जितं मम प्रिय मित्रं मन्थ-

रको नाम कच्छप :पः प्रतिवसति । स च मत्स्याद्याहार विशेषेण मां संवर्धयिष्यति ।

तेन सह कालमनुद्वेगेन सुखं यापयिष्यामि । तच्छ्रुत्वा हिरण्यक आह्व् । अह-

मपि भवता सहागमिष्यामि । ममापीह निर्वेदोऽस्ति । वायस आह । किं भव-

तोऽपि निर्वेदस्य कारणम् । हिरण्यक आह । भो बहुवक्तव्यमस्ति तत्रैव गत्वा

ते सर्वं कथयिष्यामीति वचनसमकालमेव वायसञ्श्चञ्च्वा मित्तंरं गृहीत्वा तं <error>हृदं
</error><fix>ह्रदं</fix>
विपुलं प्राप्तवान् । अथ मूषकेण सह वायसमायान्तं दूराद्दृष्टाट्वा मन्थरको देशका -

लवित् कोऽयमिति विचिन्त्यात्मशङ्कया पुलिनादुत्प्लुत्याम्भासभसि निमग्नः । लघु-

पतनकोप्युदकसंघट्टक्षुभितहृदय :यः किमिदमिति वितर्क्य हिरण्यकं पुनः पुहिलिनेऽ-

वस्थाप्य विपुलं वृक्षमधिरूढो जिज्ञासुः । तवस्थात्रस्थश्चाब्रवीत् । भो मन्थरक ।

आगच्छागच्छ तव भिमित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायासः ।
तः ।
तदागत्यालिङ्ग्य माम् । तच्छ्रुत्वा निपुणतरं परिज्ञाय पुलकिततनुरानन्दानुश्रुप्लु-

तनयनः सत्वरं सलिलान्निष्क्रम्य न मया परिज्ञातोऽसीति ममापराध:धः क्षम्यता-

मिति ब्रुवन् मन्थरको वृक्षोत्तीर्णं लघुपतनकमालिङ्गितवान् । ततश्च तेन तयोः

सहर्षमातिथ्यं कृत्वा वायसः पृष्टः । वयस्य कुतस्त्वं कथं भवान् मूषकं गृहीत्वा

निर्जनं वनमागतः । कञ्श्चायं मूषकः । वायस आह । वयस्य अयं हिरण्यको

नाम मूषकः । यस्य जिह्वासहस्रं स्यात् सोऽस्य दीर्घायुषो गुणविस्तरं यथाव-

स्थितं ब्रूयात् । साधु चेदमुच्यते ।
 

 
आजीवितान्ताः प्रणयाः कोपाश्च क्षणभकुङ्गुराः ।
 

परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ २६ ॥

 
इत्युक्त्वा यथावृत्तं तस्मै चित्रग्रीवमोक्षणमाख्यातवानात्मनानश्च तेन सह

संगतम् । मन्थरकोऽपि हिरण्यकगुणमाहात्म्यश्रवणविस्मितो हिरण्यक्रमपृच्छत् ।

अथ केन निर्वेदेन केन वा परिभवकारणेन स्वदेशमित्रबन्धुकबन्धुकवात्रादिपरित्यायो
गो
भवता व्यवखिसित इति । वायस आह । मयाप्यवंयं तदेवादीदौ पृष्ट आसीत् परमनेना-