2023-02-21 16:55:02 by ambuda-bot
This page has not been fully proofread.
तन्त्रम् २ ]
काकमूषककूर्ममृगकथा
अहमस्मात्स्थानादन्यत्स्थानं गच्छामि । सोऽब्रवीत् । वयस्य किं निमित्तम् / असा-
वकथयत् । निर्वेदात् । हिरण्यक आह । कस्ते निर्वेदः । स आह । प्रतिदिनं मे
चञ्चुभरणमुत्पद्यते सततं दृष्टपाशबन्धनप्रत्यवायाः पतत्रिष्णो वित्रस्यन्ते । तद्-
लमीदृशेन प्राणधारणेन । हिरण्यक आह्व । तर्हि व यास्यसि । स आह ।
अस्तीतोऽविदूरे वनगहनमध्ये महासरः । तत्र चिरोपार्जितं मम प्रिय मित्रं मन्थ-
रको नाम कच्छप : प्रतिवसति । स च मत्स्याद्याहार विशेषेण मां संवर्धयिष्यति ।
तेन सह कालमनुद्वेगेन सुखं यापयिष्यामि । तच्छ्रुत्वा हिरण्यक आह्व् । अह-
मपि भवता सहागमिष्यामि । ममापीह निर्वेदोऽस्ति । वायस आह । किं भव-
तोऽपि निर्वेदस्य कारणम् । हिरण्यक आह। भो बहुवक्तव्यमस्ति तत्रैव गत्वा
ते सर्वं कथयिष्यामीति वचनसमकालमेव वायसञ्चञ्च्वा मित्तं गृहीत्वा तं हृदं
विपुलं प्राप्तवान् । अथ मूषकेण सह वायसमायान्तं दूराष्टा मन्थरको देशका -
लवित् कोऽयमिति विचिन्त्यात्मशङ्कया पुलिनादुत्लुत्याम्भास निमग्नः । लघु-
पतनकोप्युदकसंघट्टक्षुभितहृदय : किमिदमिति वितर्क्य हिरण्यकं पुनः पुहिनेऽ-
वस्थाप्य विपुलं वृक्षमधिरूढो जिज्ञासुः । तवस्थाब्रवीत् । भो मन्थरक ।
आगच्छागच्छ तव भित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायासः ।
तदागत्यालिङ्गय माम् । तच्छ्रुत्वा निपुणतरं परिज्ञाय पुलकिततनुरानन्दानुप्लु-
तनयनः सत्वरं सलिलान्निष्कम्य न मया परिज्ञातोऽसीति ममापराध: क्षम्यता-
मिति ब्रुवन् मन्थरको वृक्षोत्तीर्णं लघुपतनकमालिङ्गितवान् । ततश्च तेन तयोः
सहर्षमातिथ्यं कृत्वा वायसः पृष्टः । वयस्य कुतस्त्वं कथं भवान् मूषकं गृहीत्वा
निर्जनं वनमागतः । कञ्चायं मूषकः । वायस आह । वयस्य अयं हिरण्यको
नाम मूषकः । यस्य जिह्वासहस्रं स्यात् सोऽस्य दीर्घायुषो गुणविस्तरं यथाव-
स्थितं ब्रूयात् । साधु चेदमुच्यते ।
आजीवितान्ताः प्रणयाः कोपाच क्षणभकुराः ।
परित्यागाच निःसङ्गा न भवन्ति महात्मनाम् ॥ २६ ॥
इत्युक्त्वा यथावृत्तं तस्मै चित्रग्रीवमोक्षणमाख्यातवानात्मना तेन सह
संगतम् । मन्थरकोऽपि हिरण्यकगुणमाहात्म्यश्रवणविस्मितो हिरण्यक्रमपृच्छत् ।
अथ केन निर्वेदेन केन वा परिभवकारणेन स्वदेशमिलबन्धुकवादिपरित्यायो
भवता व्यवखित इति । वायस आह । मयाप्यवं तदेवादी पृष्ट आसीत् परमनेना-