2023-04-11 12:02:26 by Alok Kumar
This page has been fully proofread once and needs a second look.
युक्त एव स्यात् । नो चेदनाहारेणात्मानं तव द्वारि व्यापादयिष्यामि । तच्छ्रुत्वा
हिरण्यकोऽब्रवीत् । प्रत्यायितोऽहं भवता । तद्भवतु भवतोऽभिमतम् । परं मया
त्वद्बुद्धिपरीक्षणार्थमेतदभिहितं यथा यद्येवं मां विनाशयसि मा किल भवान्
मंस्यतेऽज्ञोऽयं मया बुद्धिकौशलेनाभिहित इति । यत एतन्मया भवतः प्रदर्शित-
मधुना त्वदङ्कगतं मे शिरः । एवमुक्त्वा निर्गन्तुमारब्धः । ईषच्चार्धनिर्गतः पुन-
रेवावस्थितः । ततो वायसेनाभिहितः । भद्र किमद्यापि ममोपरि किचिदविश्वास-
कारणं यद्दुर्गान्न निर्गच्छसि । सोऽब्रवीत् । अस्ति किंचिद्वक्तव्यम् । इह हि
चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरम् । चित्तसंगमं वृद्धये न पुनर्वित्तम् ।
प्रभूतानपि विनाशाय कश्चिल्लावकेभ्यस्तिलान् प्रयच्छति । किमसावुपकाराय
न मूलोच्छित्तये ।
नोपकारः सुहृच्चिह्नं नापकारोऽरिलक्षणम् ।
प्रदुष्टमप्रदुष्टं वा चित्तमेवात्र कारणम् ॥ २३ ॥
नाहमुपलब्धचित्तस्त्वत्तो बिभमि । किं तु त्वदीयान्यमित्रपार्श्वात् कदा-
चिन्मम विश्वस्तस्य विनाशः स्यादिति । अथासावाह ।
गुणवन्मित्रनाशेन यन्मित्रमुपलभ्यते ।
शालिस्तम्बविरोद्धारं श्यामाकमिव तत्त्यजेत् ॥ २४ ॥
तच्च श्रुत्वा सत्वरं निर्गत्य सादरं परस्परं समागतौ ।
प्रीति निरन्तरां कृत्वा दुर्भेदां नखमांसवत् ।
मूषको वायसश्चैव गतावेकारिमित्रताम् ॥ २५ ॥
सुमुहूर्तं च स्थित्वा हिरण्यको वायसं संभोज्य विसृज्य गृहं प्रविष्टः ।
वायसोऽपि स्वस्थानं गतः । लघुपतनकोऽपि किंचिद्वनगहनमनुप्रविश्य शार्दूल-
व्यापादितमेकं वनमहिषं दृष्ट्वा तत्र प्रकाममाहारं कृत्वा मांसपेशीमादाय हिरण्य-
कांतिकमेवागतस्तं चाहूतवान् । एह्येहि भद्र हिरण्यक भक्ष्यतामिदं मयोपनीतं
मांसमिति । तस्यापि च कृते तेन हिरण्यकेनादृतेन भूत्वा श्यामाकतण्डुलानां
निस्तुषाणां सुमहान् पुञ्जः कृतः । आह च । सखे भक्ष्यन्तामिमे स्वसामर्थ्येन
मयोपनीतास्तण्डुला इति । ततस्तौ च परस्परं सुतृप्तावपि स्नेहसूचनार्थं भक्षित-
वन्तौ प्रतिदिनं च तयोः कुशलप्रश्नैर्विश्रम्भालापैश्च लोकातीतस्नेहपुरःसरः
कालोऽतिवर्तते । अथ कदाचिद्वायसः समागत्य हिरण्यकमाह । भद्र हिरण्यक