This page has been fully proofread once and needs a second look.

रमुभयवैरं च । वायस आह । कस्तयोर्विशेषः । सोऽब्रवीत् । यो विहन्यात्पर-
स्परमन्योन्येन भक्ष्यते परस्परापकारात्तदुभयवैरं यथा सिंहगजानाम् । यः
पूर्वमेव हत्वा भक्षयति न चासौ तस्यापकरोति न हिनस्ति न भक्षयति ।
तदेकाङ्गवैरमकस्माद्यथाश्वमहिषाणां मार्जारमूषकाणामहिनकुलानाम् । किमश्वो
महिषस्य सर्पो वा बभ्रोर्मूषको वा मार्जारस्यापकरोति । तत्सर्वथा किमशक्येन
समयकारणेन । अपि च
 
सुहृदयमिति दुर्जनेऽस्ति काशा
बहु कृतमस्य मयेति लुप्तमेतत् ।
स्वजन इति पुराण एष शब्दो
धनलवमात्रनिबन्धनो हि लोकः ॥ १६ ॥
 
अन्यच्च
 
इष्टो वा बहुसुकृतोपलालितो वा
श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
दौःशील्याज्जनयति नैव जात्वसाधु-
र्विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ १७ ॥
 
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ॥ १८ ॥
 
सकृद्दुष्टं तु यो मित्रं पुनः संधातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १९ ॥
 
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसभ्यो भयं गुणवतामपि ॥ २० ॥
 
वायस आह । श्रुतं मयैतत् । तथापि सर्वात्मना त्वया सह मैत्रीं
करिष्यामि । शक्यं चैतत् । तथाहि ।
 
द्रवत्वात्सर्वलोहानां निमित्तान् मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ २१ ॥
 
किंच
 
मृद्घटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्दुर्भेद्यः संधनीयश्च ॥ २२ ॥
 
एतैर्गुणैरुपेतो भवदन्यः को मया प्राप्तव्यः । तथा त्वया समयो मे