2023-04-11 12:00:22 by Alok Kumar
This page has been fully proofread once and needs a second look.
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न नावा गम्यते स्थले ॥ ८ ॥
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ९॥
वायस आह ।
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवेयं चित्रग्रीव इवानघः ॥ १० ॥
तेन हि न युक्तं प्रार्थयमाने मयि भवतोऽनादरं कर्तुम् ।
तिरश्चामपि विश्वासो दृष्टः समयनिश्चयः ।
सतां हि साधुशीलत्वात्त्वच्चित्रग्रीवयोरिव ॥ ११ ॥
साधोः प्रकुपितस्यापि न मनो याति विक्रियाम् ।
न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ १२ ॥
गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् ।
छाद्यमानापि सौगन्ध्यमुद्वमत्येव मालती ॥ १३ ॥
तच्छ्रुत्वा हिरण्यकोऽब्रवीत् । भद्र स्वभावचपलस्त्वम् । उक्तं च
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १४ ॥
तदपगम्यतामस्माद्दुर्गोपरोधस्थानादिति । सोऽब्रवीत् भद्र चपलो न
चपल इति किमनेन निष्ठुरवचनेन । निश्चयोऽयं मया तावद्भवद्गुणाकृष्टेन
त्वया सह मैत्र्यमवश्यं कर्तव्यमिति । हिरण्यक आह । भोस्त्वया वैरिणा सह
कथं मैत्रीं करोमि । उक्तं च
शत्रुणा न हि संदध्यात् सुश्लिष्टेनापि संधिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १५ ॥
वायस आह । भोस्त्वया सह मम दर्शनमपि नास्ति कुतो वैरम् ।
तत्किमनुचितं वदसि । ततो विहस्य हिरण्यकोऽब्रवीत् । भद्र । इह तावल्लोके
द्वे वैरे शास्त्रदृष्टे सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । वायस
आह । भो द्विविधस्यापि वैरस्य लक्षणं श्रोतुमिच्छामि। तत्कथ्यताम् । स
आह । भोः कारणेन निर्वृत्तं कृत्रिमम् । तत्तदर्होपकारकरणाद्गच्छति । स्वाभावि-
कं च पुनः कथमपि नापगच्छति। तच्च स्वाभाविकं वैरं द्विविधं <error>भवत्यैकाङ्गवै-</error><fix>भवत्येकाङ्गवै-</fix>