This page has been fully proofread once and needs a second look.

५२
 
[ तन्त्रम् २
 
मित्रप्राप्तिः
 
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।

नोदके शकटं याति न नावा गम्यते स्थले ॥ ८ ॥

 
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।

अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ९॥
 

 
वायस आह ।
 

 
भक्षितेनापि भवता नाहारो मम पुष्कलः ।

त्वयि जीवति जीवेयं चित्रप्रविग्रीव इवानघः ॥ १० ॥

 
तेन हि न युक्तं प्रार्थयमाने मायमयि भवतोऽनादरं कर्तुम् ।

 
तिरश्चामपि विश्वासो दृष्टः समयनिश्चयः ।

सतां हि साधुशीलत्वात्त्वश्च्चित्रप्ग्रीवयोरिव ॥ ११ ॥

 
साधो:धोः प्रकुपितस्यापि न मनो याति विक्रियाम् ।

न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ १२ ॥

 
गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् ।

छाद्यमानापि सौगन्ध्यमुद्मत्येव मालती ॥ १३ ॥

 
तच्छ्रुत्वा हिरण्यकोऽब्रवीत् । भद्र स्वभावचपलस्त्वम् । उक्तं च

 
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।

तस्मात्सर्वाणि कार्याणि चपलो न्त्यसंशयम् ॥ १४ ॥
तद्

 
तद
पगम्यतामस्माद्दुर्गोपरोधस्थानादिति । सोऽब्रवीत् भद्र चपलो न

चपल इति किमनेन निष्ठुरवचनेन । निश्योऽयं मया तावद्भवद्गुणाकृष्टेन

त्वया सह मैत्र्यमवश्यं कर्तव्यमिति । हिरण्यक आह । भोस्त्वया वैरिणा सह

कथं मैत्रीं करोमि । उक्तं च
 

 
शत्रुणा न हि संदध्यात् सुश्लिष्टेनापि संधिना ।

सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १५ ॥
 

 
वायस आह । भोस्त्वया सह मम दर्शनमपि नास्ति कुतो वैरम ।
म् ।
तत्किमनुचितं वदसि । ततो विहस्य हिरण्यकोऽब्रवीत् । भद्र । इह तावल्लोके

द्वे वैरे शास्त्रदृष्टे सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । वायस

आह । भो द्विविधस्यापि वैरस्य लक्षणं श्रोतुमिच्छामि। तत्कथ्यताम् । स

आह । भो:भोः कारणेन निर्वृत्तं कृत्रिमम् । तत्तदोदर्होपकारकरणाद्गच्छति । स्वाभावि
-
कं च पुनः कथमपि नापगच्छति। तच्च स्वाभाविकं वैरं द्विविधं भवत्यैकाङ्क्षवेगवै-