This page has not been fully proofread.

५२
 
[ तन्त्रम् २
 
मित्रप्राप्तिः
 
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न नावा गम्यते स्थले ॥ ८ ॥
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ ९॥
 
वायस आह ।
 
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवयं चित्रप्रवि इवानघः ॥ १० ॥
तेन हि न युक्तं प्रार्थयमाने माय भवतोऽनादरं कर्तुम् ।
तिरश्चामपि विश्वासो दृष्टः समयनिश्चयः ।
सतां हि साधुशीलत्वात्त्वश्चित्रप्रीवयोरिव ॥ ११ ॥
साधो: प्रकुपितस्यापि न मनो याति विक्रियाम् ।
न हि तापयितुं शक्यं समुद्राम्भस्तृणोल्कया ॥ १२ ॥
गुणा अनुक्ता अपि ते स्वयं यान्ति प्रकाशताम् ।
छाद्यमानापि सौगन्ध्यमुद्रमत्येव मालती ॥ १३ ॥
तच्छ्रुत्वा हिरण्यकोऽब्रवीत् । भद्र स्वभावचपलस्त्वम् । उक्तं च
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो इन्त्यसंशयम् ॥ १४ ॥
तद्पगम्यतामस्माद्दुर्गोपरोधस्थानादिति । सोऽब्रवीत् भद्र चपलो न
चपल इति किमनेन निष्ठुरवचनेन । निश्रयोऽयं मया तावद्भवद्गुणाकृष्टेन
त्वया सह मैत्र्यमवश्यं कर्तव्यमिति । हिरण्यक आह । भोस्त्वया वैरिणा सह
कथं मैत्रीं करोमि । उक्तं च
 
शत्रुणा न हि संदध्यात्नापि संधिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १५ ॥
 
वायस आह । भोस्त्वया सह मम दर्शनमपि नास्ति कुतो वैरम ।
तत्किमनुचितं वदसि । ततो विहस्य हिरण्यकोऽब्रवीत् । भद्र । इह तावलोके
द्वे वैरे शास्त्रदृष्टे सहजं कृत्रिमं च । तत्सहजवैरी त्वमस्माकम् । वायस
आह । भो द्विविधस्यापि वैरस्य लक्षणं श्रोतुमिच्छामि। तत्कथ्यताम् । स
आह । भो: कारणेन निर्वृत्तं कृत्रिमम् । तत्तदोपकारकरणाद्गच्छति । स्वाभावि
कं च पुनः कथमपि नापगच्छति। तच स्वाभाविक वैरं द्विविधं भवत्यैकाङ्क्षवे-