This page has been fully proofread once and needs a second look.

दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुण:णः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ ६ ॥
 
एवमुक्त्वा हिरण्यकश्चित्रग्रीवस्य पाशं छेत्तुमारब्धः । चित्रग्रीव आह ।
भद्र मैवं कुरु । प्रथमं मम परिजनस्य पाशाश्छिद्यन्तां तदनु ममापि च ।
एवं द्वितीय तृतीये हिरण्यकः कुपितोऽब्रवीत् । भद्र कथं स्वव्यसनोपेक्षां कृत्वा
परस्य व्यसनमोक्षः क्रियत इति । सोऽब्रवीत् । भद्र न मन्युः कार्यः ।
अन्यानपि परित्यज्य ममाश्रिता एते सर्वे वराकाः । तत्कथमेतावन्मात्रमपि
संमानं न करोमि । तद्यावयं भवान् मम पाशं न छिनत्ति तावदश्रान्तमेषां
छेत्स्यसि । आदौ च मम छिन्ने <error>कदाचिद्भवाञ्छ्रमममियात्</error><fix>कदाचिद्भवाञ्छ्रममियात्</fix> । तच्चासाधु । यत एवं
मयाभिहितम् । तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह । मया तव परीक्षेयं कृता ॥
साध्वाश्रयणीयगुणोपेतोऽसि ।
 
कारुण्यं संविभागच यथा भृत्यपु लक्ष्यते ।
चित्तेनानेन ते शक्या त्रैलोक्यस्यापि नाथता ॥ ७ ॥
 
एवमुक्त्वा सर्वेषां पाशछेदः कृतः । मुक्तबन्धनस्तु चिलग्रीवो हिरण्य-
कमापृच्छ्य संप्रेषित उत्पत्य सपरिवारः स्वाश्रयं ययौ । हिरण्यकोऽपि स्वं
दुर्गं प्रविष्टः । लघुपतनकोऽपि सर्वं तं चित्रग्रीवबन्धमोक्षं विलोक्य साश्चर्यं
व्यचिन्तयत् । अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गस्य सामग्री च ।
तन्ममापि युक्तं हिरण्यकेन सह चित्रग्रीववत् प्रीतिकरणम् । येनास्माकमपी-
दृशानि पाशबन्धनव्यसनान्युत्पद्यन्त इति । एवं संप्रधार्य तस्मात्पादपाद-
वतीर्य बिलद्वारमाश्रित्य पूर्वोपलब्धनामानं हिरण्यकं समाहूतवान् । भद्र
हिरण्यक इतस्तावदिति । तच्छ्रुत्वा हिरण्यको व्यचिन्तयत् । किमन्योऽपि
कश्चित् सावशेषबन्धनः कपोतोऽवतिष्ठते यो मां व्याहरति । आह च । भोः
को भवान् । स आह । लघुपतनको नाम वायसोऽहम् । तच्छ्रुत्वा हिरण्य-
कोऽभ्यन्तरात्तं दरीद्वारगतं वायसं दृष्ट्वाब्रवीत् । अपगम्यतामस्मात् स्थाना-
दिति । वायसोऽब्रवीत् । अहं चित्रग्रीवमोक्षणं <error>त्वत्सकाशादृष्ट्वा</error><fix>त्वत्सकाशाद्दृष्ट्वा</fix> त्वया सह
मित्रत्वमिच्छामि । तत् कदाचिन्ममापीदृग्व्यसने जाते तव पार्श्वान्मुक्ति-
र्भवति । तन्मामवश्यं मैत्र्येणानुग्रहीतुमर्हति भवान् । हिरण्यको विहस्याह ।
का त्वया सह मम मैत्री ।