This page has been fully proofread once and needs a second look.

दुरात्मा कपोतान् प्रति करिष्यतीति । चित्रग्रीवोऽपि तदभिप्रायं ज्ञात्वा सहाया-
नाह । अयं दुरात्मा बद्धाशोऽनुधावति लुब्धकः । अतोऽस्माकमदर्शनमेव श्रेयः ।
सुदूरमुत्पत्य गिरितरुविषमभूभागानामुपरि गम्यतामिति । अथान्तर्हिता जालं
गृहीत्वा पक्षिणः । अथ लुब्धकोऽपि तान् दृष्टेरगोचरतां गतान् विज्ञाय निराशः
प्रतिनिवृत्तः । चित्रग्रीवोऽपि तं प्रतिनिवृत्तं दृष्ट्वा तानब्रवीत् । भो निवृत्तः स
दुरात्मा लुब्धकः । तदस्माकमपि प्रतिनिवृत्य गन्तुं श्रेयो महिलारोप्यमेव । तत्र
प्रागुत्तरदिग्भागे मम प्रियसुहृद्धिरण्यको नाम मूषकः प्रतिवसति । तत्सकाशम-
विलम्बितं गच्छामः । सोऽस्माकं पाशांश्छेत्स्यति समर्थश्चायमापद्विमोक्षणायेति ।
तथेति ते हिरण्यकबिलसमीपं प्राप्य संनिपतिताः । हिरण्यकोऽपि नीतिज्ञोऽपाय-
शङ्कया शतमुखबिलं कृत्वा तत्र निवसति । पक्षिपातचकितहृदयो हिरण्यको
निभृतमवस्थितः । चित्रग्रीवोऽपि बिलमुखमारोप्यैवमाह। भद्र हिरण्यक । इत-
स्तावदिति । तच्च श्रुत्वा बिलदुर्गान्तर्गत एव हिरण्यकोऽब्रवीत्। को भवा-
निति । असावप्याह । चित्रग्रीवोऽहं तव सुहृदिति । सोऽपि तदाकर्ण्य पुल-
किततनुः प्रहृष्टात्मा ससंभ्रमं निर्गत्य चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य
सविषादमाह । भद्र किमिदम् । कथय कथयेति । स आह । भद्र विद्वानसि
किमनेन पृष्टेन । उक्तं च
 
यस्माच्च येन च यदा च यथा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तदा च तथा च तच्च
तावच्च तत्र च कृतान्तवशादुपैति ॥ ३ ॥
 
हिरण्यक आह । एवमेतत् ।
 
सदशाद्योजनशतात् पश्यतीहामिषं खगः ।
स एव काले संप्राप्ते पाशबन्धं न पश्यति ॥ ४ ॥
 
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ ५ ॥
 
व्योमैकान्तविहारिणोऽपि विहगा:गाः संप्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान् मीनाः समुद्रावपि ।