This page has been fully proofread once and needs a second look.

अथ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् ।
 
अथेदमारभ्यते मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः ।
 
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥
 
राजपुत्रा ऊचुः । कथमेतत् । विष्णुशर्मा कथयति । अस्ति दाक्षिणात्ये
जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे महान् स्कन्धशाखोपचितः
शाल्मलिवृक्षः । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । तत्र च
लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्रातःसमय आहारार्थ-
मुच्चलित उग्ररूपं स्फुटितकरचरणमतिपरुषशरीरं जालहस्तं सलगुडं द्वितीयमिव
कालं पक्षिबन्धव्याधं तद्वृक्षाभ्याशमुपगतमपश्यत् । तं दृष्ट्वा शङ्कितमना
अचिन्तयत् । किमयं दुरात्मा चिकीर्षति । किं ममैवानर्थायाहोस्वित् कश्चिदन्यो-
ऽस्याध्यवसायः । इति पश्यन्नवस्थितः । असावपि लुब्धकस्तत्र वृक्ष आगत्य
जालं वितत्य धान्यकणानवकीर्य नातिदूरे निभृतमवस्थितः । अथ तत्र चित्र-
ग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभसि परिभ्रमंस्तान् कणानपश्यत्
प्रलोभितमतिराहारनिमित्तं जालमपतत् सपरिवारो निःशेषं स्नायुपाशैर्बद्धश्च ।
लुब्धकोऽपि तं दृष्ट्वा प्रहृष्टमना लगुडमुद्यम्याधावत् । चित्रग्रीवोऽपि स्वानु-
चरानितश्चेतश्च परिभ्रमतो दृष्ट्वा तैर्विचित्रचञ्चुचरणैराकृष्यमाणे जाले तानब्र-
वीत् । अपाय एष महानस्माकमापतितः । एक एवात्रोपायः । सर्वैरप्येकचित्त-
र्भूत्वा खमुत्पत्य सुदूरं गम्यताम् । अन्यथाशक्यं जालमपहर्तुमिति । तथा च
तैर्जीवितार्थिभिरनुष्ठितम् । जालमपहृत्येषुक्षेपमात्रं नभसो मार्गमुत्सृज्य वियति
प्रस्थिताः । लुब्धकोऽपि जालं पक्षिभिर्नीयमानं दृष्ट्वाभूतपूर्वमिदमिति चिन्तय-
न्नूर्ध्वाननो धावन्नेवमवधारयामास ।
 
संहतास्तु हरन्तीमे मम जालं विहंगमाः ।
यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥
 
चित्रग्रीवोऽपि तं क्रूरमनुयान्तं दृष्ट्वा शीघ्रं गन्तुमारब्धः । लघुपतनको-
ऽप्याहारचिन्तामुत्सृज्य कौतुकात् कपोतवृन्दमेवानुगतश्चिन्तयति । कथमयं