This page has been fully proofread once and needs a second look.

तं चैवमधृतिपरीतं प्रलपन्तं पिङ्गलकं दृष्ट्वा शनैरुपश्लिष्य दमनकोऽ-
ब्रवीत् । कतर एष न्यायो नयो वा यत् सपत्नं हत्वाधृतिः क्रियते । उक्तं च
 
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् ।
प्राणद्रोहकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७३ ॥
 
राजा घृणी ब्राह्मणः सर्वभक्षः
स्त्री चावशा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या अमी यश्च कृतं न वेत्ति ॥ १७४ ॥
 
गच्छ दूरमपि यत्र नन्दसि
पृच्छ बालमपि पण्डितं जनम् ।
देहि देहमपि याचितोऽर्थिने
छिन्धि बाहुमपि दुष्टमात्मनः ॥ १७५
 
न चायं धर्मो राज्ञां यः किल प्राकृतपुरुषाणां साधारणः । उक्तं च
 
न मनुष्यप्रकृतिना शक्यं राज्यं प्रशासितुम् ।
ये हि दोषा मनुष्याणां एव नृपतेर्गुणा:णाः ॥ १७६ ॥
 
अपि च
 
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरचित्रधनागमा च
वेश्याङ्गनेव नृपतिनीतिरनेकरूपा ॥ १७७ ॥
 
इति दमनकेन परितोषितः स्वां प्रकृतिमापन्नः पिङ्गलकः पूर्ववद्दमनक-
साचिव्येन राज्यसुखमनुभवन्नास्ते ।
 
इति मित्रभेदं नाम प्रथमं तन्त्रं समाप्तम् ।