This page has been fully proofread once and needs a second look.

तन्त्रम् १]
 
सिंहवृषभकथा
 
४७
 
तं चैवमधृतिपरीतं प्रलपन्तं पिङ्गलकं दृष्ट्वा शनैरुपश्लिष्य दमनकोऽ-

ब्रवीत् । कतर एष न्यायो नयो वा यत् सपत्नं हत्वावृधृतिः क्रियते । उक्तं च

 
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् ।

प्राणद्रोहकरा राज्ञा हुन्तव्या भूतिमिच्छता ॥ १७३ ॥

 
राजा घृणी ब्राह्मणः सर्वभक्षः
 

स्त्री चावशा दुष्प्रकृति :तिः सहायः ।
 

प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
 

त्याज्या अमी यश्च कृतं न वेत्ति ॥ १७४ ॥
 

 
गच्छ दूरमपि यत्र नन्दसि
 
अपि च
 

पृच्छ बालमपि पण्डितं जनम् ।
 

देहि देहमपि याचितोऽर्थिने
 

छिन्धि बाहुमपि दुष्टमात्मनः ॥ १७५ ।
 

 
न चायं धर्मोंमो राज्ञां यः किल प्राकृतपुरुषाणां साधारणः । उक्तं च
 

 
न मनुष्य प्रकृतिना शक्यं राज्यं प्रशासितुम् ।

ये हि दोषा मनातनुष्याणां एव नृपतेर्गुणा: ॥ १७६ ॥
 

 
अपि च
 
सत्यानृता च पवारुषा प्रियवादिनी च
 

हिंस्रा दयालुरपि चार्थपरा वदान्या ।

नित्यव्यया प्रचुरचित्रधनागमा च
 

वेश्याङ्गनेव नृपतिनी तिरनेकरूपा ॥ १७७ ॥
 

 
इति दमनकेन परितोषितः स्वां प्रकृतिमापन्नः पिङ्गलकः पूर्ववद्दमनक-

साचिन्व्येन राज्यसुखमनुभवन्नास्ते ।
 

 
इति मित्रमेभेदं नाम प्रथमं तन्त्रं समाप्तम् ।
 
5
 
10
 
15
 
20