This page has not been fully proofread.

तन्त्रम् १]
 
सिंहवृषभकथा
 
४७
 
तं चैवमधृतिपरीतं प्रलपन्तं पिङ्गलकं दृष्ट्वा शनैरुपलिय दमनकोऽ-
ब्रवीत् । कतर एष न्यायो नयो वा यत् सपत्नं हत्वावृतिः क्रियते । उक्तं च
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् ।
प्राणद्रोहकरा राज्ञा हुन्तव्या भूतिमिच्छता ॥ १७३ ॥
राजा घृणी ब्राह्मणः सर्वभक्षः
 
स्त्री चावशा दुष्प्रकृति : सहायः ।
 
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
 
त्याज्या अमी यश्च कृतं न वेत्ति ॥ १७४ ॥
 
गच्छ दूरमपि यत्र नन्दसि
 
अपि च
 
पृच्छ बालमपि पण्डितं जनम् ।
 
देहि देहमपि याचितोऽर्थिने
 
छिन्धि बाहुमपि दुष्टमात्मनः ॥ १७५ ।
 
न चायं धर्मों राज्ञां यः किल प्राकृतपुरुषाणां साधारणः । उक्तं च
 
न मनुष्य प्रकृतिना शक्यं राज्यं प्रशासितुम् ।
ये हि दोषा मनात एव नृपतेर्गुणा: ॥ १७६ ॥
 
सत्यानृता च पवा प्रियवादिनी च
 
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरचित्रधनागमा च
 
वेश्याङ्गनेव नृपनी तिरनेकरूपा ॥ १७७ ॥
 
इति दमनकेन परितोषितः स्वां प्रकृतिमापन्नः पिङ्गलकः पूर्ववदमनक-
साचिन्येन राज्यसुखमनुभवन्नास्ते ।
 
इति मित्रमेदं नाम प्रथमं तन्त्रं समाप्तम् ।
 
5
 
10
 
15
 
20