This page has been fully proofread once and needs a second look.

यच्चाजस्रं परार्ध्यगुणपरोऽसि तदपि त्वां प्रकृतिराकर्षति । कथम्
 
प्रायेणेह कुलान्वितं कुकुलजा:जाः स्त्रीवल्लभं दुर्भगा
दातारं कृपणा ऋजूननृजवस्तेजस्विनं पूतराः ।
वैरूप्योपहताश्च कान्तवपुषं सौख्यस्थितं दुःस्थिता
नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १६७
 
अथवा
 
तस्योपदेशः सफलः सकृदुक्तं हि वेत्ति यः ।
त्वं तु पाषाणनिश्चेष्ट उपदेशेन किं तव ॥ १६८ ॥
 
किं च मूर्ख त्वया सह संवासोऽपि न श्रेयान् । अन्यथा कदाचित्त्वत्संप-
र्कादस्माकमप्यनर्थः स्यात् । उक्तं च
 
लभते पुरुषास्तांस्तान् गुणदोषान् साध्वसाधुसंपर्कात् ।
नानादेशविचारी पवन इव शुभाशुभान् गन्धान् ॥ १६९ ॥
 
पैशुन्यमात्रकुशलः सौहार्दस्य विनाशकः ।
प्रमाणं त्वादृशो यत्र तत्कार्यं न शुभं भवेत् ॥ १७० ॥
 
अपि च पिशुनानां न किंचित्स्वार्थमुपपद्यते विनाशादृते । अन्त्या-
स्वप्यवस्थासु नैवाकार्यं व्यवस्यन्ति साधवः कर्तुम् । तथा हि
 
यदकार्यमकार्यमेव त-
न्न बुधस्तत्र मतिं प्रयोजयेत् ।
परयापि तृषा प्रबाधितै-
र्न हि रथ्यागतमम्बु पीयते ॥ १७१ ॥
 
इत्युक्त्वा तत्सकाशादपेतः करटकः । अथ पिङ्गलक:कः संजीवकं
व्यापाद्य प्रशान्तकोपोऽसृग्दिग्धं पाणिं प्रमृज्यातिशोकार्तः संनिःश्वस्य
सपश्चात्तापमिदमब्रवीत् । कष्टं महदिदमकृत्यं मया कृतं द्वितीयमिव शरीरं
संजीवकं व्यापादयता । उक्तं च
 
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशे ।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमि:मिः सुलभा न भृत्याः ॥ १७२ ॥