This page has not been fully proofread.

5
 
15
 
तस्योपदेशः सफलः सकृदुक्तं हि वेत्ति यः ।
त्वं तु पापाणनिश्चेष्ट उपदेशेन किं तव ॥ १६८ ॥
किं च मूर्ख त्वया सह संवासोऽपि न श्रेयान् । अन्यथा कदाचिस्त्वत्संप-
10 र्कादिस्माकमप्यनर्थः स्यात् । उक्तं च
 
20
 
अथवा
 
25
 
मित्रभेदम्
 
[तन्त्रम् १
 
यच्चाजस्रं परार्श्वगुणपरोऽसि तदपि त्वां प्रकृतिराकर्षति । कथम्
प्रायेणेह कुलान्वितं कुकुलजा: स्त्रीवल्लभं दुर्भागा
दातारं कृपणा ऋजूननृजवस्तेजस्विनं पूतराः ।
वैरूप्योपहताञ्च कान्तवपुपं सौख्यस्थितं दुःस्थिता
नानाशास्त्र विशारदं च पुरुपं निन्दन्ति मूर्खाः सदा ॥१६७॥
 
लभते पुरुपस्तांस्तान् गुणदोपान् साध्वसाधुसंपर्कात् ।
नानादेश विचारी पवन इव शुभाशुभान् गन्धान् ॥१६९ ॥
पैशुन्यम/त्रकुशलः सौहार्दस्य विनाशकः ।
 
प्रमाणं त्वादृशो यत्र तत्कार्यं न शुभं भवेत् ॥ १७० ॥
अपि च पिशुनानां न किंचित्स्वार्थमुपपद्यते विनाशाहते । अन्त्या-
स्वप्यवस्थासु नैवाकार्य व्यवस्यन्ति साधवः कर्तुम् । तथा हि
यद्कार्यमकार्यमेव त-
न बुधस्तत्र मतिं प्रयोजयेत् ।
परयापि तृपा प्रबाधित -
 
न हि रथ्यागतमम्बु पीयते ॥ १७१ ॥
 
इत्युक्त्वा तत्सकाशादतः करटकः । अथ पिङ्गलक: संजीवक
व्यापाद्य प्रशान्तको पोऽसृग्दिग्धं पाणि प्रमृज्यातिशोकार्तः सनिःश्वस्य
सपश्चात्तापभिमब्रवीत् । कष्टं महदिदमकृत्यं मया कृतं द्वितीयमिव शरीरं
संजीवकं व्यापादयता । उक्तं च
 
सम्येकदेशस्य गुणान्वितस्य
 
मृत्यस्य वा बुद्धिमतः प्रणाशे ।
भृत्यप्रणाशो मरणं नृपाणां
 
नष्टापि भूमि: सुलभा न भृत्याः ॥ १७२ ॥