This page has been fully proofread once and needs a second look.

प्रायात् । स च मन्दभाग्यतया बहुनापि कालेन न किंचित् प्राप्य प्रत्याग-
तस्तां निक्षिप्तां तुलां तस्मात् प्रार्थितवान् । असावपि लुब्धोऽब्रवीत् । सा
तुला मूषकैर्भक्षितेति । अथासावचिन्तयत् । विस्मयनीयमेतत् । कथं लोहसह-
स्रमयीं तुलां मूषका भक्षयिष्यन्तीति । अन्तर्लीनमवहस्याब्रवीत् । अवश्य-
मेतदेवम् । यत्कारणम् । वृष्यं स्वादु मृदु च लोहं कथमाखवो न भक्षयिष्यन्ति।
इति प्रतिपन्नवाक् । असावपि सुपरितुष्टहृदयः पाद्यादिपुरःसरां तस्य पूजां
कर्तुमारब्धवान् भोजनं च प्रार्थितवान् । तस्य च नातिदूरे नदी । तत्र स्नाना-
भ्युद्यतस्य च तस्य स्वीयं पुत्रमेकमामलकस्नानशाटिकासमेतं पृष्ठतः प्रेषितवान् ।
असावपि स्नात्वा प्रत्यागच्छंस्तं दारकमन्यस्मिन् मित्रगृहे सुगुप्तं कृत्वा
तद्गृहमागतः । पृष्टश्च तेन वणिजा । क्वासौ दारकस्तवानुपदप्रेषितः । इह न
प्रविष्ट इति । अथ सोऽब्रवीत् । श्येनेनापहृत इति । तच्छ्रुत्वा परमाविग्नो
निर्दयीभूतश्च तं बाहौ गृहीत्वा धर्मस्थानमुपनीतवान् । आह च । परि-
त्रायध्वं परित्रायध्वमनेन दुरात्मना मे दारकः क्वापि गोपित इति । पृष्टश्चासौ
धर्माधिकृतैः । किमेतत् । कथ्यतामिति । स विहस्याब्रवीत् । श्येनेनापहृत
इति । ततस्तैर्विस्मितमनोभिरभिहितः । अलौकिकमेतत् । कथं श्येनो दारक-
मपहरिष्यतीति । स आह । किमत्र चित्रम् ।
 
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
गजं तत्र हरेच्छ्येनो दारके कोऽत्र विस्मयः ॥ १६५ ॥
 
तच्छ्रुत्वा तैरधिगतवृत्तान्तैरुक्तम् । समर्पयास्य लोहसहस्रतुलामय-
मपि दारकमानेष्यतीति । ततस्तौ तथानुष्ठितवन्तौ ।
 
इति पञ्चदशी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । तुलां लोहसहस्रस्येति । तत्किं पशोरिव निःसंज्ञ-
स्योपदिष्टेन । श्रुतवति प्रज्ञा जले तैलं रक्ते विषं सत्सु संगतं प्रेम प्रियासु
गुह्यमविनीतेषु विसर्पितं कीर्तिमतां च लोके साधुजन्म । कस्मात् ।
 
न जातिधर्मः पुरुषस्य साधुता
चरित्रमूलानि यशांसि देहिनाम् ।
अकीर्तिरापच्छतजालकर्षणी
कृतघ्नमन्वेति परत्र चेह च ॥ १६६ ॥