This page has been fully proofread once and needs a second look.

पृष्टश्च । भोः किमिदम् । ततोऽसावब्रवीत् । अहमनेन दुष्पुत्रेण दुष्टबुद्धिनावस्था-
मिमां प्रापित इति । एवमभिवदन् पञ्चत्वमुपगतः । अथ तै राजाधिकृत-
स्तमर्थं ज्ञात्वा धर्मबुद्धये तद्धनं दापयित्वा दुष्टबुद्धिः शूले निक्षिप्तः ।
 
इति त्रयोदशी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । दुष्टबुद्धिरबुद्धिश्चेति । आख्याते चाख्यानके पुनः कर-
टको दमनकमब्रवीत् । धिङ्मूर्खातिपाण्डित्येन त्वया दग्धः स्ववंशः । साधु
चेदमुच्यते ।
 
लवणजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।
पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६० ॥
 
अपि च यस्य तावन् मनुष्यस्यैकस्मिन्नेव मुखे जिह्वाद्वयं भवति
कस्तस्य विश्वासमियात् । उक्तं च
 
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् ।
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १६१ ॥
 
तन्ममाप्यनेन तव चरितेन भयमुत्पन्नम् । कस्मात्
 
मा गाः पिशुनविस्रम्भं ममायं पूर्वसंस्तुतः ।
चिरकालोपचीर्णोऽपि दशत्येव भुजंगमः ॥ १६२ ॥
 
विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्ज्य:यः ॥ १६३ ॥
 
तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः किं पुनरधुना स्वामिनोऽ-
पि व्यभिचरितम् । तद्यतस्त्वं स्वं स्वामिनमिमां दशां नयसि तस्य तवान्य-
स्तृणभूतः । उक्तं च
 
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
गजं तत्र हरेच्छ्येनो दारके कोऽत्र विस्मयः ॥ १६४ ॥
 
दमनकोऽब्रवीत् । कथं चैतत् । सोऽब्रवीत् ।
 
अथ लोहभक्षकमूषककथा नाम पञ्चदशी कथा ।
 
अस्ति कस्मिंश्चिदधिष्ठाने क्षीणविभवो वणिक्पुत्रः । स देशान्तरमर्थो-
पार्जननिमित्तं प्रस्थितः । तस्य च गृहे पूर्वपुरुषोपार्जिता लोहपलसहस्रघटिता
तुलास्ति । स चान्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय